नवरात्रे दुग्ध उत्पादकानां प्रोत्साहन राशेः उपहारः , विभागः प्रेषितवान् 16 कोटिरूप्यकाणि
रांची, 28 सितंबरमासः (हि.स.)। झारखण्डराज्ये दुग्ध उत्पादकानां कृते नवरात्रि पावनस्मरणे शुभसमाचारः प्राप्तः। राज्यसरकारः झारखण्ड मिल्क फेडरेशन सम्बन्धिनां लगभग षष्टि सहस्र दुग्ध उत्पादकानां प्रोत्साहनराशिं प्रदातुं यतते। कृषि, पशुपालनं च सहकारिता मन
फाइल फोटो मंत्री


रांची, 28 सितंबरमासः (हि.स.)।

झारखण्डराज्ये दुग्ध उत्पादकानां कृते नवरात्रि पावनस्मरणे शुभसमाचारः प्राप्तः। राज्यसरकारः झारखण्ड मिल्क फेडरेशन सम्बन्धिनां लगभग षष्टि सहस्र दुग्ध उत्पादकानां प्रोत्साहनराशिं प्रदातुं यतते।

कृषि, पशुपालनं च सहकारिता मन्त्री शिल्पी नेहा तिर्की अवदत् – अप्रैल् २०२५ तः अगस्त् २०२५ पर्यन्तं बकाया प्रोत्साहनराशिः विभागेन निर्गता। विभागेन दुग्ध उत्पादकानां कृते पञ्च रूप्यकं प्रति लिटर प्रोत्साहनराशेः मदे षोडश कोटि रूप्यकाणि प्रदत्तानि। अधुना एषा राशि दुग्ध उत्पादकानां वित्तकोषेषु प्रेषयितुं प्रक्रिया आरब्धा।

ते कथयन्ति – झारखण्ड मिल्क फेडरेशन द्वारा वर्तमानकाले प्रतिदिन २.५३ लक्ष् लिटर दुग्धसंग्रहणं क्रियते। दुग्धसंग्रहणस्य वृद्धिः झारखण्डं श्वेतक्रान्त्याः दौरे शीघ्रं अग्रे नेतुं साधयति। राज्यस्य योजनाः दुग्ध उत्पादकानां आर्थिकसंपन्नता च स्वावलम्बनं च साधयितुं सहाय्यकाःसन्ति।

---------------

हिन्दुस्थान समाचार