सांबायाम् अंताराष्ट्रिय सीम्नः पाश्वे संदिग्ध ड्रोन गतिविधौ दृष्टायां सत्याम् अन्वेषणम् अभियानम्
जम्मूः, 28 सितंबरमासः (हि.स.)।सीमासुरक्षाबलम् (बीएसएफ) रविवासरे जम्मू–कश्मीरस्य सांबा-जिल्लायाम् अन्ताराष्ट्रियसीमायाम् एकस्य संशयितस्य पाकिस्तानीय-ड्रोणस्य गतिविधेः सूचना प्राप्त्वा अन्वेषण-अभियानम् आरब्धवान्।अधिकाऱ्यः उक्तवन्तः यत् प्रातः समये षड्व
जम्मू-कश्मीर के सांबा में अंतरराष्ट्रीय सीमा के पास संदिग्ध ड्रोन गतिविधि


जम्मूः, 28 सितंबरमासः (हि.स.)।सीमासुरक्षाबलम् (बीएसएफ) रविवासरे जम्मू–कश्मीरस्य सांबा-जिल्लायाम् अन्ताराष्ट्रियसीमायाम् एकस्य संशयितस्य पाकिस्तानीय-ड्रोणस्य गतिविधेः सूचना प्राप्त्वा अन्वेषण-अभियानम् आरब्धवान्।अधिकाऱ्यः उक्तवन्तः यत् प्रातः समये षड्वादने त्रिंशदधिके (६.३०) रामगढ-क्षेत्रस्य करलियान्-ग्रामस्य उपरि पाकिस्तानीयः ड्रोणः मण्डरमाणः दृष्टः, ततः अनन्तरं लुप्तः जातः।

बीएसएफ-सैनिकैः त्वरितं ग्रामे समीपप्रदेशेषु च अन्वेषण-अभियानम् आरब्धम्, यत् सीमा–पारतः शस्त्राणि वा मादकद्रव्याणि वा न क्षिप्यन्ते इति सुनिश्चितुं शक्येत।अधिकाऱ्यः अवदन् यावत् अन्तिम-प्रतिवेदनं न लब्धं, तावत्कालं अन्वेषण-अभियानं प्रवृत्तमेव आसीत्।

---

हिन्दुस्थान समाचार