अफगानिस्तानः एकम् इतोऽपि अमेरिकी नागरिकम् अत्यजत्
वाशिंगटनम्/काबुलम्, 29 सितंबरमासः (हि.स.)।अफगानस्थानदेशेन पुनः अपि एकः अमेरिकीयनागरिकः मुक्तः कृतः। आमिर अमीरी नामकः अयं अस्मिन् वर्षे अफगानस्थानकारागारात् विमुक्तः जातः पञ्चमः नागरिकः। अस्य अमीरीनामकस्य मोचने कतरेण महत्त्वपूर्णा राजनयिकभूमिका वहिता।
कतर के विदेश मंत्रालय ने यह तस्वीर 28 सितंबर को जारी की। इसमें अमेरिकी नागरिक आमिर अमीरी (बाएं) एक अज्ञात महिला के साथ नजर आ रहे हैं। वो अफगानिस्तान की एक जेल से रिहा होने के बाद काबुल में एक विमान में हैं। उनके साथ दायीं ओर कतर के राजनयिक सेबेस्टियन गोर्का और इस बंधक को सुलझाने में महत्वपूर्ण भूमिका निभाने वाले अमेरिकी विशेष दूत एडम बोहलर।


वाशिंगटनम्/काबुलम्, 29 सितंबरमासः (हि.स.)।अफगानस्थानदेशेन पुनः अपि एकः अमेरिकीयनागरिकः मुक्तः कृतः। आमिर अमीरी नामकः अयं अस्मिन् वर्षे अफगानस्थानकारागारात् विमुक्तः जातः पञ्चमः नागरिकः। अस्य अमीरीनामकस्य मोचने कतरेण महत्त्वपूर्णा राजनयिकभूमिका वहिता। वाशिंग्टननगरं तस्मै दोहादेशाय कृतज्ञतां व्यक्तवान्।

अमेरिकीसमाचारसंस्थया एबीसी-न्यूज तथा पाकिस्तानस्य “द एक्सप्रेस ट्रिब्यून” इति पत्रिकया रविवासरे प्रकाशिते वार्तापत्रे अमीरीनः विमोचनं पुष्टं जातम्।

अमेरिकायाः विदेशमन्त्री मार्को रुबियो नाम रविवासरे प्रकाशिते घोषणापत्रे उक्तवान् यत्— “अमेरिकीयनागरिकः आमिर अमीरी अफगानस्थाने अन्यायेन कारायां बद्धः आसीत्, अधुना सः मुक्तः जातः।” एषः अमीरी नामकः पञ्चमः नागरिकः अस्ति, यं अफगानस्थानदेशः अस्मिन् वर्षे अमेरिकायै समर्पितवान्।

रुबियो नामकः स्वबक्तव्ये राष्ट्रपति डोनाल्ड-ट्रंपस्य नेतृत्वं तस्य च दृढप्रतिबद्धतां धन्यवादं च कृतवान्। तेन उक्तं यत्— “अमेरिकावासिनो मोचने कतरे अपि महत्त्वपूर्णं योगदानं कृतम्। आज, राष्ट्रपति-ट्रंपस्य नेतृत्वेन, तेषां च अमेरिकजनानां प्रति निष्ठया, अमेरिका देशः अन्यायेन बद्धस्य आमिर-अमीरी-नामकस्य स्वजनस्य स्वागतं करोति। कतरेभ्यः हार्दिकं आभारं वयम् व्यक्तयामः, यस्य दृढसहकारेण अथक-राजनयिकप्रयत्नैः च अमीरीनः विमोचनं सुनिश्चितं जातम्।”

सः अपि उक्तवान्— “अधुना अपि अफगानस्थाने बहवः अमेरिकनागरिकाः अन्यायेन कारायां बद्धाः सन्ति। यावत् ते स्वदेशं न प्रत्यानेताः तावत् राष्ट्रपति-ट्रंपः शान्तिं न प्राप्स्यति।”

एकेन अधिकारिणा सूचितं यत् अमीरी-नामकस्य विशेषप्रवासनवीसा (Special Immigrant Visa – SIV) प्राप्तः आसीत्। तस्य विमोचनार्थं अमेरिका-कतरयोः संयुक्तराजनयिकप्रयत्नः अभवत्। अधिकारिणा अपि उक्तं यत्— “अमीरीनः सुरक्षितं प्रत्यागमनं लभ्यते स्म, किन्तु तस्य मोचनेन बदले तालिबाने किञ्चन न प्राप्तवान्।”

अमीरीनः विमोचनं च एडम्-बोहलरस्य अस्य प्रदेशस्य दौरेण सह अभवत्। बोहलरः गतसप्ताहे अफगानस्थाने बगराम-वैमानिककेन्द्रं पुनः अमेरिकायै दातुं तालिबानं प्रति आग्रहं कृतवान् आसीत्।

अफगानस्थानस्य तालिबान-सरकारा अमीरीनः विमोचनात् पूर्वं गतसप्ताहे वृद्धं ब्रिटिशदम्पत्यं मोचितवती। मंत्रालयेन प्रकाशिते वक्तव्ये उक्तं यत् “आमिर-अमीरी-नामकः वाशिंग्टनदेशस्य विशेषदूताय एडम्-बोहलराय समर्पितः। अस्य सम्बन्धेन अस्य मासस्य आरम्भे एव बोहलरेण तालिबानसरकारेण सह काबुलनगरे चर्चा कृता आसीत्।”

विदेशमन्त्रालयेन अपि एक्स-नामके सामाजिकजाले लिखितं—

“अफगानसर्वकारो नागरिकानाम् विषयं न कदापि राजनीतिकदृष्ट्या पश्यति। कूटनीतेः माध्यमेन एव समस्यायाः समाधानमार्गाः अन्वेष्टुं शक्यन्ते।”

---------------

हिन्दुस्थान समाचार