Enter your Email Address to subscribe to our newsletters
पटना, 29 सितंबरमासः (हि.स.)।
मुख्यमन्त्री श्री नीतीशकुमारः अद्य १ अणे मार्गे स्थिते संकल्प इत्यस्मिन् रिमोट् माध्यमेन ११,९२१ कोटी रुपयाणां २०,६५८ योजनानां शिलान्यासम् / कार्यारम्भं च उद्घाटनं च कृतवन्तः। अस्याः अन्तर्गतं ७,८०५ कोटी रुपयाणां व्ययेन जनसुविधा-विकाससम्बन्धिनः १६,०६५ योजनाः शिलान्यासार्थं / कार्यारम्भार्थं क्रियन्ते च, तथा ४,११६ कोटी रुपयाणां व्ययेन ४,५९३ योजनानां उद्घाटनकार्यं च समाविष्टम्।
कार्यक्रमस्य अन्तर्गतं भवननिर्माणविभागः तथा बिहारराज्यभवननिर्माणनिगमः लिमिटेड् द्वारा विज्ञान-, प्राविधिकी- तथा तन्त्रशिक्षा, पशु-मत्स्यसंसाधनम्, समाजकल्याणम्, परिवहनम्, अनुसूचितजाति-कल्याणम्, पिछडाबर्ग-कल्याणम्, अल्पसंख्यक-कल्याणम्, क्रीडा, श्रमसंसाधनम्, राजस्व-भूमिसुधारः, कला-संस्कृति-युवा, आपदा-प्रबन्धन, गृहनिर्माणम्, कृषिः, सामान्य-प्रशासनम्, वाणिज्यकरविभागस्य भवननिर्माणसम्बन्धिनः ९९७ कोटी रुपयाणां व्ययेन ९७ योजनानां शिलान्यासः / कार्यारम्भः तथा २४६७ कोटी रुपयाणां व्ययेन १३७ योजनानां उद्घाटनम् कृतम्।
लोकस्वास्थ्यअभियन्त्रणविभागे छूटे टोलेषु पेयजलापूर्ति तथा बहुग्रामजलापूर्ति योजनासम्बन्धिनः ५१९० कोटी रुपयाणां १५,६७० योजनानां शिलान्यासः / कार्यारम्भः तथा १३७७ कोटी रुपयाणां ४,३१२ योजनानां उद्घाटनम् आसीत्। स्वास्थ्यविभागे विभिन्नेषु जिलेषु क्रिटिकल् केयर् ब्लॉक भवन, अनुमण्डलीय-रोगालय, औषधि-भण्डारगृहं च स्वास्थ्यकेन्द्रस्य निर्माणसम्बन्धिनः १,१२१ कोटी रुपयाणां २८१ योजनानां शिलान्यासः / कार्यारम्भः तथा २७२ कोटी रुपयाणां १४४ योजनानां उद्घाटनं कृतम्।
अथ पर्यटनविभागस्य ४९७ कोटी रुपयाणां व्ययेन पर्यटनविकाससम्बन्धिनः १७ योजनानां शिलान्यासः कृतम्। लघु जलसंसाधनविभागे मुख्यमंत्री निजी नलकूप योजनायाः १३,७१६ लाभार्थिनां खातेषु ८१ कोटी २९ लक्ष रुपयाणि डी.बी.टी.-मार्गेण हस्तान्तरणानि कृतानि।
कार्यक्रमे मुख्यमन्त्री श्री नीतीशकुमारः उक्तवन्तः – “अद्यकालेभ्यः शिलान्यासकार्येभ्यः, कार्यारम्भेभ्यः, उद्घाटनकर्मसु च समस्तविभागानां अभिनन्दनं। एतेषां योजनानां प्रारम्भेन राज्ये विकासकार्येषु नूतना गति दिशा च भविष्यति। अस्य प्रत्यक्ष लाभः जनानाम् प्राप्यते, यस्मात् तेषां जीवनस्तरः अपि उत्कृष्टः
भविष्यति।”
---------------
हिन्दुस्थान समाचार