Enter your Email Address to subscribe to our newsletters
मांढरम्/रायपुरम् 29 सितम्बरमासः (हि.स.)। शारदीयनवरात्रस्य 2025 पावनावसरे छत्तीसगढराजधानी रायपुरजनपदस्य मांढरे स्थितं मां सन्तोषी-मां वैभवलक्ष्मी-धाम भक्तिमयेन वातावरणेन आलोकितम् अस्ति। अत्र नवदिनपर्यन्तं विशेषधार्मिक-सांस्कृतिककार्यक्रमाः प्रवर्तमानाः, येषु प्रातःकालात् सायन्तनं यावत् भजन-कीर्तनं पूजन-अर्चनं सांस्कृतिकानां च आयोजनानि भवन्ति। मन्दिरपरिसरः आकर्षकरोचनाभिः, पुष्पैः, झालराभिश्च सज्जितः, यस्मात् सम्पूर्णं धामम् आध्यात्मिकशक्त्या परिपूर्णम् अभवत्। अस्यैव कार्यक्रमश्रेण्याम् अद्य सोमवासरे विशेषभजनसन्ध्या माता-जागरणं च आयोजितं भविष्यति, यत् रात्रौ 8 वादनात् प्रातः 3 वादनपर्यन्तं प्रवर्तिष्यते।
अस्य आयोजनस्य मुख्याकर्षणं भविष्यति भारतस्य सुप्रसिद्धा भजनगायिका च पद्मश्री-सम्मानिता अनुराधा पौडवाल (मुंबई), या स्वस्य मधुरया कण्ठ्यया मातृभक्तिभजनानां सङ्गीतगङ्गां प्रवाहितुम् अर्हति। अनुराधायाः नाम भारतीयभक्तिसङ्गीतजगति उच्चस्थानं धारयति। तस्या भजनश्रवणं श्रद्धालूनां कृते दिव्यानुभवः भविष्यति। तया सह जबलपुरस्य प्रख्याता भजनगायिका बाली टाकरे, मां शारदा-समूहस्य (जबलपुर) लोकप्रियभजनगायिका रिजा खान च प्रस्तुतीं दास्यतः। अस्मिन् अवसरे मांढरधाम भक्तैः परिपूर्णं भविष्यति, च दीर्घरात्रिपर्यन्तं मांढरनगरं भक्तिगीतैः गुञ्जायमानं भविष्यति।
आयोजनसमितेः पदाधिकारी प्रेमबीरनाने, मोहन-अहूजा, भारत-जयसिंग च उक्तवन्तः यत् अखण्डज्योतिः, ज्योतिकलशः, विशेषपूजाऽर्चनं च सम्पूर्णनवरात्रमहोत्सवकाले धाम्नि प्रवर्तमानम्। अद्य सायंकाले भवितव्यं जागरणम् अस्य सम्पूर्णस्य आयोजनस्य विशेषतमा कड़ी इति। समितिः श्रद्धालून् प्रति निवेदनं कृतवती यत् ते स्वपरिवारैः सह अधिकाधिकसङ्ख्यायाम् आगत्य अस्य अद्वितीयस्य भव्यस्य च भजनसन्ध्यायाः भागिनः भूत्वा, मातृदेव्याः आशीर्वादं प्राप्नुयुः।
हिन्दुस्थान समाचार / अंशु गुप्ता