Enter your Email Address to subscribe to our newsletters
नवदेहली, 29 सितंबरमासः (हि.स.)।
भारतीयजनतापक्षस्य अध्यक्षः जगत्प्रकाशनड्डा तमिळनाडुराज्यस्य करूरप्रदेशे टी.वी.के. दलस्य सभासमये जातस्य भगदड्डस्य अनुसन्धानाय अष्टसदस्यकं प्रतिनिधिमण्डलं निर्मितवान्। एतत् एन.डी.ए. प्रतिनिधिमण्डलं हताहतजनानां सम्बन्धिभिः सह मिलित्वा घटनायाः कारणानि अन्वेष्टुं प्रयत्स्यते।
भाजपामहासचिवः अरुणसिंह सोमवासरे विज्ञप्तिं प्रकाश्य एतस्य विवरणं दत्तवान्। विज्ञप्तेः अनुसारं अध्यक्षः नड्डा मृतजनानां प्रति शोकसंवेदनां व्यक्तवान्, आहतानां शीघ्रं स्वास्थ्यलाभं च प्रार्थितवान्। सः करूरदुर्घटनाविषये एन.डी.ए. प्रतिनिधिमण्डलस्य गठनं कृतवान्। प्रतिनिधिमण्डलं तमिळनाडुराज्यं गत्वा घटनायाः कारणं सम्यक् अवगम्य दुर्घटनया पीडितपरिवारैः सह मिलिष्यति, शीघ्रं च स्वीयं प्रतिवेदनं प्रस्तुतं करिष्यति।
प्रतिनिधिमण्डलस्य संयोजिका सांसदः हेमा मालिनी नियुक्ता। तया सह प्रतिनिधिमण्डले सप्त सदस्याः सन्ति। तेषु – भाजपासांसदः अनुरागठाकुरः, तेजस्वीसूर्यः, ब्रजलालः (पूर्वं महानिरीक्षकः), अपराजितासारङ्गी, रेखाशर्मा, शिवसेनादलस्य सांसदः श्रीकान्तशिन्दे, टी.डी.पी. पक्षस्य सांसदः पुट्टमहेशकुमारः इत्येते सम्मिलिताः सन्ति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता