Enter your Email Address to subscribe to our newsletters
भुवनेश्वरम्, 29 सितंबरमासः (हि.स.)।
ओडिशा-राज्यस्य मुख्यमंत्री श्री मोहन माझी श्री शिरीषचन्द्र-मुर्मूं भारतीय-रिज़र्व्-वित्तकोषस्य उप-राज्यपालस्य पदे नियुक्तिम् प्राप्य हार्दिकं अभिनन्दनं शुभकामनाः च व्यक्तवन्तः।
मुख्यमन्त्री स्वसंदेशे उक्तवान् यत् योग्यस्य ओडियस्य देशस्य सर्वोच्च-वित्तकोषस्य अतिविशिष्टे पदे नियुक्तिः अस्मभ्यं सर्वेभ्यः गर्वस्य सम्मानस्य च कारणं अस्ति। सः विश्वासं व्यक्तवान्यत् आर.बी.आई.-स्य कार्यकारी-निदेशकस्य पदे मुर्मूणः दीर्घ-अनुभवः कार्यकुशलताश्च देशस्य वित्तीय-व्यवस्था अर्थव्यवस्थां च अधिकं दृढां कर्तुम् साहाय्यं करिष्यन्ति।
माझीमहोदयः मुर्मूं प्रति तेषां नवकार्यकालस्य दायित्वेषु च शुभकामनाः दत्त्वा तेषां उज्ज्वलं भविष्यं कामयन्ते।
---------------
हिन्दुस्थान समाचार