क्रीडाङ्गणेऽपि “ऑपरेशनसिन्दूरम्”… प्रधानमन्त्रिण: मोदिन: भारतीयदलाय एशियाकपविजये अभिनन्दनं दत्तवान्
नवदेहली, २९ सितम्बरमासः (हि.स.)। प्रधानमन्त्रिणा नरेन्द्रेमोदिना एशियाकप् २०२५ अन्त्यस्पर्धायां पाकिस्तानम् प्रति भारतस्य विजयः “ऑपरेशनसिन्दूरस्य” परिणामेन तुल्यः इति निर्दिश्य भारतीयक्रिकेटदलाय अभिनन्दनं दत्तम्। ते अवदन् यत् क्षेत्रे प्रवर्तितस्य भ
पीएम मोदी ने टीम इंडिया को एशिया कप जीतने पर दी बधाई


पीएम मोदी ने टीम इंडिया को एशिया कप जीतने पर दी बधाई


नवदेहली, २९ सितम्बरमासः (हि.स.)। प्रधानमन्त्रिणा नरेन्द्रेमोदिना एशियाकप् २०२५ अन्त्यस्पर्धायां पाकिस्तानम् प्रति भारतस्य विजयः “ऑपरेशनसिन्दूरस्य” परिणामेन तुल्यः इति निर्दिश्य भारतीयक्रिकेटदलाय अभिनन्दनं दत्तम्।

ते अवदन् यत् क्षेत्रे प्रवर्तितस्य भारतस्य अभियानस्य परिणामः स एव जातः – भारतस्य विजयः। स्पर्धां जित्वा प्रधानमन्त्रिणा दलस्य प्रदर्शनस्य प्रशंसा कृता। क्रीडकैः यथा समर्पणेन योजनया च क्रीडितं तत् राष्ट्रवासिनां गौरवं वर्धितम्। एष: विजयः राष्ट्रस्य गौरवस्य क्षणः इति प्रधानमन्त्रिणा निर्दिष्टम्।

प्रधानमन्त्रिणा मोदिना ‘एक्स्’ इत्यस्मिन् लिखितम् – “क्रिकेटक्रीडाक्षेत्रे ‘ऑपरेशनसिन्दूरम्’। परिणामः स एव। अस्माकं क्रिकेटक्रीडकेभ्यः बहु–बहु अभिनन्दनम्।”

एषा टिप्पणी भारतस्य निर्णायकविजयाम् रणनीतिकसफलतां च राष्ट्रीय–गौरवेण सह सम्बद्धयन् प्रतीकात्मकसन्देशः इव मन्यते।

यथार्थतः, पहलगाम–आतङ्कि-आक्रमणानन्तरं भारतीयसेनया “ऑपरेशनसिन्दूरम्” नाम अभियानं प्रवर्त्य पाकिस्तानदेशे आतङ्किस्थानानि विनाशितानि आसन्। प्रधानमन्त्रिणा मोदिना तस्मिन् सन्दर्भे उक्तं यत् क्रिकेटक्रीडायामपि भारतः पाकिस्तानं दारुणं पराजितवान्।

---

हिन्दुस्थान समाचार / अंशु गुप्ता