सप्तम्याः रात्रौ कोलकातायां उत्पन्नः सम्मर्दः, पंडालेषु समुत्थिता अवर्तत सम्मर्दः
कोलकाता, 29 सितंबरमासः (हि. स.)।दुर्गापूजायाः सप्तम्यां रविवासररात्रौ राजधानी कोलकातानगरस्य मार्गेषु जनसैलाभः प्रवाहितः। लक्षशः श्रद्धालवः दर्शकाः च नगरे विभिन्नेषु पण्डालेषु गत्वा विषयविशेषरचनाः, विद्युद्दीपप्रभाः, कलाकृतयः च आनन्देन अवलोकयन्। षष्ठी
दुर्गा पूजा


कोलकाता, 29 सितंबरमासः (हि. स.)।दुर्गापूजायाः सप्तम्यां रविवासररात्रौ राजधानी कोलकातानगरस्य मार्गेषु जनसैलाभः प्रवाहितः। लक्षशः श्रद्धालवः दर्शकाः च नगरे विभिन्नेषु पण्डालेषु गत्वा विषयविशेषरचनाः, विद्युद्दीपप्रभाः, कलाकृतयः च आनन्देन अवलोकयन्। षष्ठीदिनात् एव भीडस्य आरम्भः जातः, किन्तु सप्तम्यां रात्रौ सा भीडः अतिशयेन ववृद्ध।सप्तमी–अष्टमी–नवमी दिनेषु सर्वकारि–असर्वकारिणां कार्यालयानां अवकाशः आसीत्, अतः जनाः स्वपरिवारैः मित्रैश्च सह निशायामपि पण्डालानाम् अन्तिके समायुक्ताः। “ऑपरेशन् सिन्दूर” इत्यस्य विषयाधारितः पण्डालः—सन्तोषमित्रा एस्क्वायर्, सुरुचिसंघः, शिवपुरमन्दिरतलः, खिदिरपुर ७४ पल्लि, खिदिरपुर २५ पल्लि, चक्रबेरिया, बकुलबागान, बदामतला आसाढसङ्घः, गरियाहाट् हिन्दुस्तान्क्लबः, ६६ पल्लि, त्रिधारा हिन्दुस्तानसार्वजनिकः, सिञ्घीपार्कः, सलीमपुरः, शिवमन्दिरः, मुदियालिः, श्रीभूमिः, मोहम्मदअलीपार्कः, बागापणराजबाडिः इत्यादयः प्रमुखाः पण्डालाः आसन्। अत्र कतिपयेषु स्थलेषु एकैकस्मिन् पण्डाले प्रविष्टुं प्रायः एक–एकं किलोमीटर् दीर्घाः पङ्क्तयः दृष्टाः। एकैकः दर्शकः पण्डालस्य दर्शनाय द्वौ द्वौ घण्टौ यावत् प्रतीक्षां कर्तुं बाध्यः।एतस्मिन् समये भीडमध्ये मद्यपानेन मतवर्तिनां दुष्टानां च विषये पुलिसस्य कठोरनिरीक्षणं आसीत्, येन सामान्यजनानां कश्चन उपद्रवः न जायेत।पण्डालदर्शनार्थिनां भीडस्य प्रभावः रेलयान–मेट्रो–बससेवायामपि दृष्टः। हावडासियाल्दहयोः मण्डलयोः रेलयानेषु अत्यन्तं सम्भारः दृश्यः। यत: यत: जनाः याने आरूढाः, ततः ततः स्थाने एव सियाल्दह–हावडा स्थानकपर्यन्तं स्थिराः तिष्ठितुमेव बाध्याः।मेट्रोसेवायाम् अस्मिन् वर्षे अभूतपूर्वा भीडः अभिलिखिता। षष्ठ्यां दिने ९.११ लक्षयात्रिणः मेट्रोसेवां प्रयुक्तवन्तः, सप्तम्यां तु संख्या इयं अतिशयेन वर्धिष्यते इति सूचितम्। बसयानेषु अपि दिवसभरं प्रणोददृश्यं तिष्ठति स्म। अष्टमीनवमीषु अपि एवं भीडः भविष्यति इति सम्भाव्यते।

---

हिन्दुस्थान समाचार