Enter your Email Address to subscribe to our newsletters
जयपुरम्, 29 सितंबर मांसः (हि.स.)।
सप्तदशसितम्बरदिनाङ्कतः आरब्धैः ग्रामीणसेवाशिविरैः सामान्यजनानां समस्याः स्थले एव समाधानं प्राप्य सुशासनस्य नूतना मार्गः उद्घाटितः। एषु शिविरेषु विभागविशेषैः सम्बद्धाः प्रकरणाः हस्ततः एव निवार्यन्ते। समाचारानुसारं षड्विंशतिसितम्बरपर्यन्तं प्रदेशस्य ग्रामपञ्चायतमुख्यालयेषु ४१२१ ग्रामीणसेवाशिविराणि सफलतया आयोजितानि।
एषु राजस्वविभागेन पारस्परिकसहमत्याः आधारतः भूमिविभाजनस्य ८८०१ प्रकरणानि निस्तारितानि। तथैव ५२९९६ नामान्तरणप्रकरणानां निस्तारः कृत्वा राजस्वलेख्येषु अभिलेखः कृतः, ५८७७२ दीर्घकालपर्यन्तं प्रलम्बिताः कृषकपञ्जीकरणपत्रिकाः पूर्णाः, स्वामित्वयोजनान्तर्गतं ६४१०६ पट्ट्रिकाः वितरिताः। सामान्यजनानां कृते ७४८४२ मूलनिवासप्रमाणपत्राणि, ९१४६९ जातिप्रमाणपत्राणि च निर्गतानीति।
भजनलालसरकारस्य शिविरैः स्वास्थ्यपशुपालनक्षेत्रयोः अपि उल्लेखनीयं कार्यं कृतम्। महिलाः कर्कटव्याधेः विषये जागृताः कृता: यत्र अद्यावधि १,५३,७१५ स्त्रीणां मुखकर्कटः, स्तनकर्कटः, गर्भाशयग्रीवाकर्कटः च परीक्षणं कृतम्। ४९३५५ बालकानां टीकाकरणं सम्पन्नम्। ३,२७,९८३ व्यक्तीनां क्षयरोगपरीक्षणं कृतम्, ७४८३ पोषणकिटाः वितरिताः।
मुख्यमन्त्रिमङ्गलापशुबीमायोजनान्तर्गतं ८५६५७ बीमापत्रिकाः वितरिताः, २,५४,४०५ पशुपालकाः विविधाभ्यः योजनाभ्यः लाभं प्राप्तवन्तः।
ग्रामीणसेवाशिविरेषु विद्युत्सम्बद्धाः समस्याः अपि त्वरितं निवार्यन्ते। अद्यापि २०५३६ विद्युत्सप्लायिसम्बद्धाः समस्याः परिष्कृताः। १०४९१ मीट्रयन्त्राणि, २०११ रूपान्तरकयन्त्राणि च सुधारितानि। ३४२२ नूतनसम्बन्धाः प्रदत्ताः।
प्रधानमन्त्रीफसलबीमायोजनायाः ८२१३७ बीमापत्रिकाः वितरिताः, १,३३,१५५ कृषकाः मिनीकिटलाभं प्राप्तवन्तः। १४१४१ कृषकाणां ई-केवाईसी प्रक्रिया सम्पन्ना।
शिविरैः एनएफएसए-पोर्टले ७८५१४ प्रलम्बितप्रकरणानि निवारितानि, राष्ट्रीयखाद्यसुरक्षायोजनायाम् ४,३०,८१३ नूतनपरिवाराः/सदस्याः आधारसंयोजनेन योजिताः।
तथैव मुख्यमन्त्रीकन्यादानयोजनायाः अन्तर्गतं १८६ प्रकरणानि निवारितानि। आवश्यकेभ्यः २४०४ कृत्रिमाङ्गानि उपकरणानि च वितरितानि।
महिलासशक्तीकरणं प्रोत्साहयन्तः प्रधानमन्त्रिमातृवन्दनायोजनान्तर्गतं २९१५३ लाभार्थिनां पञ्जीकरणं सम्पन्नम्। आपद्भ्यः क्षतिग्रस्ताः ४१८ पक्कगृहप्रकरणानि, २४५२ कच्चगृहप्रकरणानि च निवारितानि।
वित्तीयसमावेशस्य दिशायाम् प्रधानमन्त्रिजनधनयोजनान्तर्गतं ३४३२७ नूतनबैंकखातानि उद्घाटितानि, जनाधारयोजनायाम् १४७८ नूतनपरिवाराणां नामाङ्कनं सम्पन्नम्।
---------------
हिन्दुस्थान समाचार