Enter your Email Address to subscribe to our newsletters
नवदेहली, 29 सितंबरमासः (हि.स.)। दुबई-अन्ताराष्ट्रियक्रिकेट्-स्टेडियम् मध्ये रविवासरे सम्पन्ने एशियाकप्-फाइनल्-क्रीडायाः अनन्तरम् अभूतपूर्वं दृश्यं दृष्टं जातम्। पडकम् जित्वापि भारतदले पदकाम् न प्रदत्तम्, यतः क्रीडकैः एशियनक्रिकेट्काउन्सिल-अध्यक्षात् च पाकिस्तानगृहं मन्त्रिणः तथा पाकिस्तानक्रिकेट्बोर्ड्-प्रमुखस्य मोहसिन् नक़वी इत्यस्मात् पदकम् ग्रहीतुं निषेधः कृतः।
भारतदेशेन पाकिस्तानं पञ्चविकेटेन पराजित्य नवमवारं एशियाकप्-पकदकम स्वीकृतः, किन्तु अस्य विजयस्य अनन्तरं ट्रॉफीपदकवितरणं न अभवत्।
क्रीडायाः अनन्तरं सञ्चार-सम्मेलने भारतकप्तानः सूर्यकुमारयादवः उक्तवान्—
“यदा मया क्रिकेट् क्रीडितुं द्रष्टुं च आरब्धम्, तदा प्रथमतया दृष्टं यत् विजेतृ-दलम् पदकेन् वञ्चितं भवेत्। एषा अस्माकं श्रमस्य पारिष्रमिकः, अस्माकं अधिकारः आसीत्। मम कृते वास्तविक-ट्रॉफी ते चतुर्दश क्रीडकाः सहायककर्मिणश्च सन्ति ये मम सज्जप्रकोष्ठे सन्ति।”
सूर्यकुमारः एतदपि उद्घोषितवान् यत् सः एशियाकप्-प्रतियोगायाम् उपार्जितां सर्वां मैच्-फीस् भारतीयसेनायै दास्यति। सः अवदत्—
“यत् किञ्चिदहम् अस्मिन् टूर्नामेण्टे क्रीडाशुल्कं अर्जितवान्, तत् मम इच्छाऽस्ति यत् भारतीयसेनायै ददामि।”
क्रीडासमाप्ते अनन्तरं प्रायः अर्धद्विगुणघण्टापर्यन्तं भारतदलम् पदकस्य प्रतीक्षां कृतवद्, किन्तु पुरस्कारवितरणं न अभवत्। विलम्बे जातस्य निशायामेव क्रीडकाः स्वयम् एव मंचं प्राप्तवन्तः, स्वविजयं च आचिन्वन्।
एतस्मिन् विषये हसन् सूर्यकुमारः अवदत्—
“वयं अर्धद्विगुणघण्टापर्यन्तं उत्सवस्य प्रतीक्षां कृतवन्तः। यावत् ‘चॅम्पियन्स्’ इत्यस्मिन् बोर्डः आगत्य पुनः प्रत्यागच्छत्, तत् अपि मया दृष्टम्।”
सञ्चार-सम्मेलनसमये कश्चन पाकिस्तानी-वार्ताहरः भारतदलेन कृतं आचरणं राजनीति-क्रीडयोः संयोगरूपेण निरूप्य प्रश्नं पप्रच्छ। अस्मिन् विषये मीडिया-व्यवस्थापकः प्रश्नं परिहृतवान्, किन्तु सूर्यकुमारः स्मितं कृत्वा प्रत्युक्तवान्—“भवतः क्रोधः जातः इव।”—
यदा पृष्टं यत् बीसीसीआई पूर्वमेव एसीसीं सूचितवती वा यत् भारतदलं नक़वीतः ट्रॉफीं न ग्रहीष्यति, तदा सः अवदत्—
“एषः निर्णयः वयम् एव क्रीडाङ्गणे कृतवन्तः। अस्माकं प्रति कश्चित् निर्देशः न प्राप्तः।”
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani