Enter your Email Address to subscribe to our newsletters
नवदेहली, 29 सितम्बरमासः (हि.स.)। उत्तरप्रदेशस्य इटावा-नगरे तस्य च समीपप्रदेशेषु कृतासु सञ्चारकम्पन्याः सेवासम्बद्धेषु स्वाधीन-ड्राइव्-परीक्षणेषु (आईडीटी) एयरटेल्-सञ्ज्ञका सञ्चारकम्पनी सर्वेषु मुख्यपरीमाणेषु श्रेष्ठं प्रदर्शनं कृतवती, यदा तु बीएसएनएल् इति दुरबलतमः अभवत्। एते परिणामाः अगस्त्-मासे अभवन्।
भारतीयदूरसञ्चारनियामकप्राधिकरणस्य (TRAI) अनुसारं, कॉल्-सेटप्-सफलतादरः (Call Setup Success Rate – CSSR) मध्ये एयरटेल्, वीआईएल् (वोडाफोन्-आइडिया) च 100 प्रतिशतं, रिलायन्स् जियो इन्फोकॉम लिमिटेड् (RJIL) 99.64 प्रतिशतं, बीएसएनएल् तु केवलं 64.25 प्रतिशतं प्राप्तम्। कॉल्-सेटप्-समये (Call Setup Time – CST) एयरटेल् 0.69 क्षणेन श्रेष्ठं प्रदर्शनं कृतवती, बीएसएनएल् तु 3.39 क्षणे पराजिता। ड्रॉप्-कॉल्-दरे (Drop Call Rate – DCR) एयरटेल् शून्ये अभवत्, वीआईएल्-आरजेआईएल् च क्रमशः 0.18 प्रतिशतं, 0.79 प्रतिशतं च प्राप्तवन्तौ, बीएसएनएल् तु 6.90 प्रतिशतं प्राप्तवान्।
स्वरगुणाङ्के (Speech Quality – Mean Opinion Score, MOS) एयरटेल् 4.37, वीआईएल् 3.97, आरजेआईएल् 3.84, बीएसएनएल् तु 2.35 प्राप्तम्। औसत-डाउनलोड्-वेगे एयरटेल् 184.53 Mbps, वीआईएल् 144.54 Mbps, आरजेआईएल् 28.16 Mbps, बीएसएनएल् 3.30 Mbps आसीत्। अपलोड्-वेगे एयरटेल् 25.83 Mbps, वीआईएल् 20.35 Mbps, आरजेआईएल् 11.55 Mbps, बीएसएनएल् 3.47 Mbps प्राप्तवन्तः। विलम्बे (Latency) एयरटेल्-वीआईएल् च 18.30 ms, आरजेआईएल् 29.45 ms, बीएसएनएल् 31.10 ms इति मितवन्तः।
एषः परीक्षणः 11–14 अगस्त् 2025 मध्ये 346.9 किलोमीटर-पर्यन्तं नगर-ड्राइव्, 12 हॉट्-स्पॉट्-स्थानानि, 1.7 किलोमीटर-पर्यन्तं पाद-परीक्षणं, एकस्मिन् स्थले अन्तरसञ्चारक-कॉलिंग् (Inter-Operator Calling) च आवृत्य कृतः। करहल्, जसवन्तनगर, बैदपुरा, बसरेहर, बकेवर, महेवा, अहेरीपुर, चकरनगर इत्यादि प्रदेशाः, इटावा-रेल्वे-स्थानकं, जनपद-चिकितसालयः, बस्-स्थानकं, सैफई-वैद्यकीय-महाविद्यालयः, अन्ये संस्थानानि च परीक्षणे सम्मिलितानि आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता