नगरीय विकासे मुख्यमंत्रिणो बलम् : “नवाचारः आयसृजनमेव च निर्माति नगर निकायं आत्मनिर्भरम्”
लखनऊ, 29 सितम्बरमासः (हि.स.)। विकसित-यूपी@2047” संवाद-कार्यक्रमः उत्साह-आत्मविश्वासाभ्यां परिपूर्णः आसीत्। नगरनिगमानां, नगरपालिकानां, नगरपञ्चायतानां च अध्यक्षाः स्वस्व-नगराणां परिवर्तन-विकासकथाः मुख्यमन्त्रिणं योगी आदित्यनाथं प्रति साझा कृतवन्तः। संव
वीडियो कान्फ्रेन्सिंग के माध्यम से जनप्रतिनिधियों से संवाद करते मुख्यमंत्री


लखनऊ, 29 सितम्बरमासः (हि.स.)। विकसित-यूपी@2047” संवाद-कार्यक्रमः उत्साह-आत्मविश्वासाभ्यां परिपूर्णः आसीत्। नगरनिगमानां, नगरपालिकानां, नगरपञ्चायतानां च अध्यक्षाः स्वस्व-नगराणां परिवर्तन-विकासकथाः मुख्यमन्त्रिणं योगी आदित्यनाथं प्रति साझा कृतवन्तः। संवादे मुख्यमन्त्री न केवलं तेषां प्रयासान् श्रुतवान्, अपि तु पृष्टवान्—“युष्माभिः के नवाचाराः स्वीकृताः? आयसृजनाय के नूतनमार्गाः अन्वेषिताः?” इति। सः उक्तवान्—“एते प्रयत्नाः भविष्यतः आत्मनिर्भर-आधुनिक-उत्तरप्रदेशस्य आधारशिला भविष्यन्ति।”

अयोध्यानगरस्य महापौरः गिरीशपति-त्रिपाठी करकरेत्तर-आयस्य अभूतपूर्ववृद्धिं निर्दिश्य अवदत्—“प्रतिदिनं लक्षाधिकाः श्रद्धालवः पर्यटकाः च आगच्छन्ति, निगमः तेषां कृते स्वच्छं वातावरणं दातुं प्रतिबद्धः।” मुख्यमन्त्रिणा अयोध्यां सोलरसिटीरूपेण विकसितुं योजनायाः चर्चा कृता। सः सुझावं दत्तवान्—“अयोध्यानगरनिगमे महापौराणां सम्मेलनं आयोज्यताम्, येन अस्य विकासमॉडलः अन्येभ्यः निकायभ्यः मार्गदर्शनं दास्यति।”

फिरोजाबाद-नगरस्य महापौर्या कामिनी-राठौर उक्तम्—“नगरनिगमस्य आयः अष्टादशकोटितः वर्धित्वा चत्वारिंशत्-कोट्याः वार्षिकीम् आगता। निर्मीयमाणः मॉलः स्थाय्यां आयवृद्धौ सहायकः भविष्यति।” मुख्यमन्त्रिणा एषः प्रयासः प्रशंसितः, कार्यकारिण्याः सर्वेभ्यः अभिनन्दनानि दत्तानि।

झाँसी-महापौरः बिहारीलाल-आर्य उक्तवान्—“बुन्देलखण्ड-औद्योगिक-विकास-प्राधिकरणं, डिफेन्स-कोरिडोर-नोडः, बुन्देलखण्ड-एक्सप्रेस-वे इत्यादयः प्रकल्पाः मुख्यमन्त्रिणः विशेषस्नेहस्य परिणामाः। स्वच्छवायु-सर्वेक्षणे झाँसी राष्ट्रीयस्तरे द्वितीयस्थानं प्राप्तवती। निगमस्य आयः त्रिवर्षेषु पञ्चविंशतकोटितः वर्धित्वा अशीतिकोट्याः अभवत्। लक्ष्यं शतकोटिपर्यन्तं नीयते।”

गाजियाबादे मोदीनगर-नगरपालिका-अध्यक्षः विनोदवैशाली-जातवः स्थानीय-आयवृद्धिं, शून्यभूमेः सदुपयोगं च सूचित्वा मार्गदर्शनं प्रार्थितवान्। मीरजापुरस्य अध्यक्षः श्यामसुन्दरः अवदत्—“नगरपालिकायाः आयः ५.८९ कोटितः वर्धित्वा ११ कोट्याः अभवत्। अत्र डिजीटल-सेवाः सह नागरिकेभ्यः निःशुल्कं वाई-फाई अपि प्रदत्तम्।” मुख्यमन्त्रिणा अत्र माँ-विन्ध्यवासिनी-धामस्य समीपे बहुस्तरीय-पार्किंगं, यात्री-विश्राम-स्थलञ्च निर्माणीयं इति प्रस्तावितम्।

मेरठ-जनपदे फलौदा-नगरपञ्चायस्य अध्यक्षः अशोक-सैनी अवदत्—“आयः २०-लक्षतः वर्धित्वा ४४-लक्षपर्यन्तं गतः।” मुख्यमन्त्रिणा आहूतम्—“तकनीक-नवाचाराधारित-योजनाः स्वीक्रियन्ताम्। शासनं भवनमानचित्र-प्रमाणीकरणस्य अधिकारं नगरपालिकाभ्यः नगरपञ्चायताभ्यः च दातुं विचारयति।”

मथुराया: महावन-नगरपञ्चायस्य अध्यक्ष्या मंजूदेव्याः वचनम्—“१० सहस्र-जनसंख्या युक्ता अस्माकं नगरपञ्चायती अपि ‘विकसित-यूपी’ अभियानस्य अङ्गत्वेन गर्वं अनुभवति।”

प्रयागराज-महापौरः गणेश-केसरवानी अवदत्—“स्थानीयस्तरे IT-शहरस्य विकासाय संकल्पः स्वीकृतः। २.१९-लक्षपौधे रोप्य नूतनं वनक्षेत्रं सृष्टम्। ‘नवप्रयागराज’ निर्मातुं प्रयत्नाः क्रियन्ते।” मुख्यमन्त्रिणा शिवालिक-पार्क-न्यायेन हरितप्रयत्नाः प्रोत्साहिताः।

संभल-जनपदस्य बबराला-नगरपञ्चायस्य अध्यक्षः हर्षवर्धन-वार्ष्णेयः, सहारनपुरस्य रामपुर-मनीहारन-नगरपञ्चायस्य अध्यक्ष्या रेनुः च स्वक्षेत्रेषु जातं परिवर्तनं प्रस्तुतवन्तः।

शाहजहाँपुरस्य पुवायां-नगरपञ्चायस्य अध्यक्षः अवदत्—“नवीनं मार्केट् निर्माणाधीनम्, यतः स्थायी-आयसृजनमार्गः भवेत्।” मुख्यमन्त्रिणा अस्य प्रयासस्य प्रशंसा कृत्वा उक्तम्—“एष एव ‘विकसित-यूपी@2047’ इत्यस्य भावः—यत् प्रत्येकं नगरनिकायः स्वविशेषताः, संसाधनानि च सदुपयुज्य आत्मनिर्भरत्वं, नागरिकसुविधानां च दिशायां प्रगतिं कुर्यात्।”

हिन्दुस्थान समाचार