Enter your Email Address to subscribe to our newsletters
बिरसा मुंडायाः 150तमायां जयंत्यां संविधान अमृत महोत्सव वर्षे च विहिताय आयोजनाय लब्धा विशेषेण महत्ता
17तमे जनजातीय युवा आदान-प्रदान कार्यक्रमे मुख्यमंत्री बहूनां राज्यानां युवभिः सह संवादम्
लखनऊ, 29 सितंबरमासः (हि.स.)।
मुख्यमन्त्री योगी आदित्यनाथः सप्तदशे जनजातीय-युवा-आदान-प्रदान-कार्यक्रमेऽन्तर्गते सोमवासरे मध्यप्रदेश-झारखण्ड-महाराष्ट्र-छत्तीसगढ-उड़ीसादेशेभ्यः आगतान् प्रतिभागिनः सह संवादं कृतवान्। मुख्यमन्त्रिणा योगिना उत्तरप्रदेशे आगतानां तेषां युवानां स्वागतं कृतम्। सः उक्तवान्—“भवन्तः सर्वे देशस्य एकता-अखण्डतायै स्वं सज्जयिष्यन्ति।” अस्मिन्नेव अवसरे क्रीडा-युवा-कल्याण-मन्त्री गिरीशचन्द्रयादवः अपि उपस्थितः आसीत्।
एषः सप्तदशः आदान-प्रदान-कार्यक्रमः पञ्चविंशे सितम्बरमासे आरब्धः, यः प्रथमे अक्टूबरदिनाङ्के पर्यन्तं प्रवर्तिष्यते। मुख्यमन्त्रीना प्रधानमन्त्रिणः ‘पञ्च-प्रण’-नामकं संकल्पं विवृत्य उक्तम्—“एते युवा: विकसितस्य भारतस्य आधारशिला भविष्यन्ति।”
‘एकभारत-श्रेष्ठभारत’ अभियानस्य अंगत्वम्
मुख्यमन्त्री उक्तवान्—“एषः कार्यक्रमः प्रधानमन्त्रिणः नरेन्द्रमोदिनः ‘एकभारत-श्रेष्ठभारत’ इत्यस्य अभियानस्य अत्यन्तं प्रमुखः अङ्गम् अस्ति। एषः केवलं सांस्कृतिक-आदानप्रदानस्य मंचः न, अपि तु देशस्य एकता-अखण्डता-विविधतासु निहितस्य ऐक्यभावस्य सुदृढीकरणस्य अपि अवसरः। अद्य लखनऊ-नगरे देशभरात् आगतानि द्विशतं युवा: अस्य अभियानस्य भागिनः जाताः। अस्य कार्यक्रमस्य माध्यमेन वयं सर्वे देशं दृष्टुं, ज्ञातुं, स्वसंस्कृतिं परस्परं चर्चया लभेमहि।”
भारतस्य भावैक्यम्
मुख्यमन्त्री युवभ्यः उक्तवान्—“यद्यपि अस्माकं भाषाभेदः, आचारभेदः च अस्ति, तथापि सम्पूर्णभारतस्य भावभङ्गिमा एकैव। ‘माता भूमिः पुत्रोऽहं पृथिव्याः’—एषः भावः प्रत्येकस्य भारतवस्य हृदयेषु दृश्यते। अयं भावः संस्कृतौ, परम्परायामपि द्रष्टव्यः। तस्मादेव यदा देशः गुलाम्यायाम् बद्धः आसीत्, तदा धरती-आबा भगवान् बिरसा-मुण्डेन एषः भावः पुनः जागरितः कृतः, येन विदेशी-शासनं भारतभूमिं परित्यक्तुं बाध्यं जातम्। अस्मिन् वर्षे तेषां १५०-तमं जयन्तीवर्षं च अस्ति, भारतस्य संविधानस्य अमृत-महोत्सववर्षं च।”
विकसितभारतस्य दृष्टिः
मुख्यमन्त्री उक्तवान्—“प्रधानमन्त्रिणा विकसितभारतस्य महान् दृष्टिकोणः प्रदत्तः अस्ति। भारतं तदा एव विकसितं भविष्यति, यदा प्रत्येकस्य नागरिकस्य चित्ते विकासाय दृढसंकल्पः स्यात्। तदा एव विकासः जीवनमन्त्रः भविष्यति। यदा कांदला-कालाहाण्डी-सिंहभूमि-गढचिरौली-कांकेर-नारायणपुर- बालाघाट-बीजापुरादयः प्रदेशाः विकसिताः भविष्यन्ति, तदा एव भारतस्य विकासः सम्भविष्यति।”
पञ्चप्रणस्य महत्वम्
मुख्यमन्त्री योगी प्रधानमन्त्रिणः ‘पञ्चप्रण’ इत्यस्य चर्चा कृत्वा अवदत्—
1. अस्माकं सर्वेषां हृदयेषु महापुरुषेषु, देवेषु, ऋषि-मुनिषु, स्वतन्त्रतासंग्राम-वीरेषु च श्रद्धा भावः स्यात्।
2. गुलाम्याः मानसिकता परित्यज्या। ‘वयं न शक्नुमः’ इत्यभावः त्याज्यः। ‘वयं शक्नुमः, करिष्यामः’ इत्येव भावः धारणीयः।
3. देशस्य सुरक्षा-संरक्षणाय आत्मबलिदानं कुर्वन्तः सेना-अर्धसेना-पुलिसजनाः, तेषां वर्दी च, सर्वैः भारतवासिभिः माननीया।
4. सामाजिकैकता—‘एकभारत-श्रेष्ठभारत’। भिन्नाः भाषाः, आहाराः, जातयः, प्रान्ताः च सन्ति, तथापि वयं सर्वे भारतीयाः।
5. नागरिककर्तव्यनिष्ठा—छात्रः, शिक्षकः, कृषकः, युवा:, सरकारीसेवकः, प्रतिनिधिः इत्यादयः स्वस्वकर्तव्यानि ईमानदारीपूर्वकं निर्वर्तयन्तु।
मुख्यमन्त्री उक्तवान्—“एते पञ्चप्रणः विकसितभारतस्य आधारशिला भविष्यन्ति। १४०-कोटि-जनसंख्यायाः आशा-आकाङ्क्षाः यथासम्भवम् एतेन पूरिताः भविष्यन्ति।”
अयोध्याभ्रमणस्य आदेशः
मुख्यमन्त्री योगी युवभ्यः विधानसभा-मेट्रोपरिसरयोः भ्रमणं कर्तुं प्रार्थितवान्। सः उक्तवान्—“पश्यन्तु, विकासः कथं भवति, सार्वजनिकपरिवहनस्य साधनं कथं प्रगति-पथं गच्छति। भगवान् रामस्य चतुर्दशवर्षीय-वनवासकाले जनजातीयसमुदायस्य योगदानं सर्वाधिकं आसीत्। अधुना तस्य पावनजन्मभूमौ भव्यं मन्दिरं निर्मितम्। उत्तरप्रदेशस्य युवा-कल्याण-विभागेन एतेषां युवानां अयोध्याभ्रमणं अपि आयोजनीयम्। अयोध्याम् आगत्य पश्यन्तु यत् कथं तत्र विकासः जातः। अष्ट-नववर्षपूर्वं तत्र सूक्ष्माः मार्गाः आसन्, न किमपि आसीत्। अधुना तु अयोध्या अतीव विकसितम्। यथाऽयोध्या-लखनऊ इत्यत्र विकासः दृष्टव्यः, तथा एव सर्वत्र अस्माभिः आदर्शरूपेण स्थापनीयः।”
---------------
हिन्दुस्थान समाचार