Enter your Email Address to subscribe to our newsletters
नवदेहली, 29 सितम्बरमासः (हि.स.)। भारतीयसांख्यिक-सेवा (आई.एस्.एस्.), भारतीय-कौशल-विकास-सेवा (आई.एस्.डी.एस्.) तथा केन्द्रीय-अभियान्त्रिकी-सेवा (सी.ई.एस्.) इत्येषां प्रोबेशनर्-अधिकारीणः सोमवासरे राष्ट्रपतिं द्रौपदी-मुर्मु राष्ट्रपतिगृहे समुपसङ्गच्छन्। तस्मिन् अवसरे राष्ट्रपति अधिकारिणः राष्ट्रनिर्माणे योगदानाय प्रेरितवन्त्या उक्तं च यत् सत्येन समर्पणेन च सेवां कृत्वा ते भारतं समृद्धतरं, सक्षमं, समावेशकं च कर्तुं शक्नुयुः।
भारतीयसांख्यिक-सेवायाः अधिकारिणः प्रति भाषमाणा राष्ट्रपति अवदत् यत् दृढ-नीतिनिर्माणस्य क्रियान्वयनस्य च आधारः यथार्थं सांख्यिक-विश्लेषणमेव। तया उक्तं यत् आंकानां विश्वसनीयता, वैज्ञानिकदृष्टिश्च कस्यापि निर्णयस्य प्रभावकारकत्वं वर्धयतः। तया अपेक्षिता यत् अधिकारी देशस्य वर्धमानं दत्तांश-आवश्यकतां कौशलतः पारदर्शितया च पूरयिष्यन्ति।
भारतीय-कौशल-विकास-सेवायाः अधिकारिणः प्रति राष्ट्रपति अवदत् यत् कौशलं ज्ञानं च राष्ट्रस्य वास्तविकं सम्पत्तिरस्ति। अस्मिन् वैश्विक-स्पर्धायां ते एव देशाः अग्रे गच्छन्ति, येषां समीपे उच्चप्रशिक्षितः कार्यबलः अस्ति। भारतस्य कृते आवश्यकं यत् युवा उन्नतानि तन्त्रकौशलानि गृह्णीयुः। सा विश्वासं प्रकटयामास यत् आई.एस्.डी.एस्. अधिकारी राष्ट्राय सुदृढं भविष्यन्मुखं कार्यबलं निर्मास्यन्ति।
केन्द्रीय-अभियान्त्रिकी-सेवायाः अधिकारिणः प्रति राष्ट्रपति अवदत् यत् अभियन्तारः तन्त्रज्ञान-प्रगतेः आर्थिक-विकासस्य च आधारस्तम्भाः भवन्ति। सर्वकारस्य मूलभूत-पूर्वाधार-विकास-योजनासु अभियान्त्रिकी-सेवानां दायित्वं वर्धितम् अस्ति। सा आग्रहं कृतवती यत् विकास-परियोजनासु स्थायिनः पर्यावरण-अनुकूलाः उपायाः स्वीक्रियेरन्। सा हर्षं प्रकटयामास यत् सी.पी.डब्ल्यू.डी. हरित-तन्त्रज्ञानानाम् उत्थाने संलग्नं वर्तते।
राष्ट्रपतिना अधिकारिणः उक्ताः यत् ते केवलं नीतिप्रयोगे न सीमिताः स्युः, किन्तु स्वानुभवेन फीड्-बैक् इत्यनेन च नीतिनिर्माणेऽपि सहयोगं कुर्वन्तु। समाजस्य दुर्बलान् हाशियस्थितान् च वर्गान् प्रति योजनानां लाभप्राप्तिः एव वास्तविक-प्रगतेः सूचकः। सा अवदत् यत् अधिकारी यदि सेवाभावेन, निष्ठया, पारदर्शितया च कार्यं करिष्यन्ति, तर्हि भारतं विश्वे आदर्शराष्ट्ररूपेण प्रकटिष्यते।
हिन्दुस्थान समाचार / अंशु गुप्ता