Enter your Email Address to subscribe to our newsletters
-नूतन मुख्य सचिवस्य स्वागतेन सह निवृतमान मुख्य सचिवाय दत्ताः सेवानिवृत्त्युत्तरं शुभाशयाः
रायपुरम् 30 सितंबरमासः (हि.स.)।मुख्यमन्त्रिणः विष्णुदेवसायस्य अध्यक्षतायाम् अद्य मंगलवासरे मंत्रालये (महानदीभवने) राज्य मन्त्रिमण्डलस्योपवेशनं भविष्यति।
गोष्ठ्यां निवर्तमानः मुख्यसचिवः अमिताभजैनः विदायां प्राप्स्यति, तत्रैव नवनियुक्तः मुख्यसचिवः विकासशीलः स्वागतं लप्स्यते। बैठकायां राज्योत्सवेन सह अनेकेषु विषयेषु अपि चर्चा सम्भविता।
उल्लेखनीयं यत् भारतीयप्रशासनिकसेवायाः 1994-बैचस्य अधिकारी विकासशीलः छत्तीसगढ़राज्यस्य नूतनः मुख्यसचिवः नियुक्तः। सः अद्य मंत्रालये (महानदीभवने) राज्यस्य त्रयोदशः मुख्यसचिवरूपेण पदभारं गृह्णीयात्, च मुख्यसचिवस्य अमिताभजैनस्य स्थाने भविष्यति।
विकासशीलस्य सेवानिवृत्तिः जून् 2029 तमे मासे भविष्यति। पञ्च वरिष्ठाः आई.ए.एस्. अधिकारिणः अतिक्रम्य विकासशीलाय एषा सूचना दत्ता।
हिन्दुस्थान समाचार