मुख्यमंत्री डॉ. यादवेन शारदीयनवरात्रेः दुर्गाअष्टमी-उत्सवे प्रदेशवासिनः शुभकामनाः दत्ताः
भाेपालम्, 30 सितंबरमासः (हि.स.)। शारदीयनवरात्रस्य अद्य मङ्गलवासरे अष्टमोऽह्नः आचर्यते। नवरात्रस्य नवसु दिनेषु मातुः दुर्गायाः नवरूपाणां पूजा क्रियते। अष्टमे दिने मातुः महागौऱ्याः पूजनं भवति। अस्मिन् दिने जनाः स्वकुलदेवीं महागौऱीं पूजयन्ति तथा कन्यापू
मुख्यमंत्री डॉ. यादव ने शारदीय नवरात्रि की दुर्गा अष्टमी पर प्रदेशवासियों को दी शुभकामनाएं


भाेपालम्, 30 सितंबरमासः (हि.स.)। शारदीयनवरात्रस्य अद्य मङ्गलवासरे अष्टमोऽह्नः आचर्यते। नवरात्रस्य नवसु दिनेषु मातुः दुर्गायाः नवरूपाणां पूजा क्रियते। अष्टमे दिने मातुः महागौऱ्याः पूजनं भवति। अस्मिन् दिने जनाः स्वकुलदेवीं महागौऱीं पूजयन्ति तथा कन्यापूजनम् अपि कुर्वन्ति। नवरात्रे अवसर उपलक्ष्ये मध्यप्रदेशस्य देवालयेषु भक्तानां महान् सम्मर्द दृश्यते।

मुख्यमन्त्री डा॰ मोहनयादवेन महाष्टमी-पर्वणि प्रदेशवासिनः शुभकामनाः दत्ताः। मुख्यमन्त्री डा॰ यादवेन सामाजिक-माध्यमे एक्स् इत्यस्मिन् पटले लेखं प्रेषितं यत –्

“वन्दे वाञ्छितकामार्थं चन्द्रार्धकृतशेखराम्।

सिंहारूढां चतुर्भुजां महागौरीं यशस्विनीम्॥”

शारदीयनवरात्रेः पावने अवसर उपलक्ष्ये सर्वेभ्यः दुर्गाअष्टमी-उत्सवस्य हार्दिकम् अभिनन्दनं शुभकामनाः च। जगज्जननी महागौरीदेव्याः चरणयोः कोटि-कोटि नमस्काराः। तस्याः सर्वेषां कृते वैभव–धनधान्य–शक्ति–सकारात्मकता–अभयता च आशिषः प्रार्थ्यन्ते।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता