Enter your Email Address to subscribe to our newsletters
रांची, 30 सितंबरमासः (हि.स.)। झारखण्डराज्यपालः सन्तोषगंगवारः भारतीयजनतापक्षस्य प्रदेशाध्यक्षः विपक्षनेता च बाबूलालमराण्डी इत्युभौ पूर्वसांसदं डॉ. विजयकुमारमल्होत्रं प्रति निधनसमये शोकम् अघोषयताम्।
राज्यपालः सन्तोषकुमारगंगवारः सोमवासरे सामाजिकसञ्चारमाध्यमे “एक्स्” इत्यस्मिन् लिखितवान् यत्— वरिष्ठराजनेता पूर्वसांसदश्च डॉ. विजयकुमारमल्होत्रस्य निधनसमाचारः अतीव दुःखदः। तेन राजनीतिक्षेत्रे, शिक्षाक्षेत्रे, क्रीडाक्षेत्रे च अमूल्यं योगदानं कृतम्। सः लिखितवान्— “अहं तस्मै विनम्रां श्रद्धाञ्जलिं समर्पयामि। शोकसन्तप्तपरिवारस्य प्रति मदीया गाढाः संवेदनाः। ॐ शान्तिः।”
तथैव पूर्वसांसदस्य निधनकाले बाबूलालमराण्डी अपि शोकम् अघोषयत्। झारखण्डे भारतीयजनतापक्षस्य अध्यक्षः, विधानसभा विपक्षनेता च सः सामाजिकसञ्चारमाध्यमे “एक्स्” इत्यस्मिन् लिखितवान्— “भारतीयजनतापक्षस्य वरिष्ठनेता, पूर्वलोकसभासांसदः, दिल्लीभाजपायाः प्रथमाध्यक्षः प्रो. विजयकुमारमल्होत्रस्य निधनसमाचारः अतीव दुःखदः। तेन जीवनपर्यन्तं संगठनं सशक्तं दृढं च कृतम्। ईश्वरः दिवंगतात्मानं स्वश्रीचरणेषु स्थानं ददातु, शोकाकुलपरिवारं च एतत् दुःखं सोढुं शक्त्या समर्पयतु। ॐ शान्तिः।”
------------
हिन्दुस्थान समाचार / अंशु गुप्ता