Enter your Email Address to subscribe to our newsletters
मुख्यमन्त्रीकन्यासुमङ्गला–योजनया सह 1500 कन्यकाः संलग्नाः।
कन्यापूजनसमारोहेषु शिक्षापोषणस्वास्थ्यविषये विशेषबलं दत्तम्, मिशनशक्तेः प्रतिबद्धता दृढीकृता।
लखनऊनगरम्, 30 सितम्बरमासः (हि.स.)। नवरात्र्याः पावने अवसरे मुख्यमन्त्रीयोग्यादित्यनाथस्य नेतृत्वे प्रवर्तमाने मिशनशक्ति 5.0 अभियानेन नारी–सुरक्षा–सम्मान–स्वावलम्बनस्य नूतनं शिखरं प्राप्तम्। महिलाबालविकासविभागस्य आह्वानेन सर्वत्र उत्तरप्रदेशे 30 सितम्बर–1 अक्टूबर तिथौ अष्टमी–नवमीदिवसेभ्यः कन्यापूजनकार्यक्रमाः आयोजिताः। अष्टम्यां दिवसे प्रदेशे 5 लक्षाधिकाः कन्याः आदरपूर्वकं पूजिताः। सह एव 1500 कन्याः मुख्यमन्त्री–कन्यासुमङ्गला–योजनायां संयोजिताः।
मिशनशक्ति 5.0 अन्तर्गतं कन्यापूजनं केवलं धार्मिकपरम्परायाः पालनं न, अपि तु समाजे कन्याजनमहोत्सवस्य स्थापनं सामाजिकक्रान्तेः प्रतीकं जातम्। गतं 20 सितम्बरारभ्य प्रवृत्तं मिशनशक्तिः 5.0 अभियानेन नारीणां बालिकानां च सुरक्षा–सम्मान–आत्मनिर्भरता सुदृढा जाता। कन्यापूजनमाध्यमेन योगिसर्वकारेण समाजे गम्भीरः सन्देशः दत्तः, यत्र कन्याः परिवार–समाजयोः आधारशिलाः इति प्रतिपादितम्। विविधेषु जनपदेषु आयोजितेषु कार्यक्रमेषु महिला–कल्याणमन्त्री बेबी–रानी–मोर्या, राज्य–मन्त्री प्रतिभा–शुक्ला, प्रभारी–मन्त्री, जनपदाधिकारी, जनप्रतिनिधयः, प्रशासनिक–अधिकारीणश्च उपस्थिताः।
बालिकाभ्यः स्त्रीकेन्द्रित–योजनानां सूचना प्रदत्ता, कन्यासुमङ्गला–योजनायाः प्रपत्राणि अपि पूरितानि।
अष्टम्याः दिवसे विभिन्न–विभागैः संस्थाभिश्च प्रदेशे 5 लक्षाधिकाः कन्याः सम्मानपूर्वकं पूजिताः। अस्य आयोजनस्य मूलं लक्ष्यं आसीत् — कन्याजनं न भाररूपेण, अपि तु आशीर्वादरूपेण दृष्टुं प्रेरयितुम्। सांस्कृतिक–प्रस्तुतीभिः, लोकगीतैः, संवादसत्रैश्च बालिकाः शिक्षायै, पोषणाय, स्वास्थ्याय, आत्मनिर्भराय च प्रेरिताः।
कार्यक्रमस्थलेषु विशेषकाउण्टर–स्थानेषु कन्यासुमङ्गला–योजनायाः प्रपत्राणि पूरितानि, या योजना मुख्यमन्त्रिणः मार्गदर्शनेन कन्याभ्यः जन्मतः उच्चशिक्षां प्रति 25,000 रूप्यकाणि आर्थिकसहाय्यं ददाति।
परिवाराणां समक्षं योजनानां विस्तृत–विवरणं दत्तं यथा अधिकतमं लाभः सुनिश्चितः। मिशनशक्तेः अन्तर्गतं बालविवाह–शिक्षावञ्चना–स्वास्थ्यउपेक्षा इत्यादिकुरीतीनां विरोधे अभियानं प्रवर्तितम्, यत् नारीसुरक्षायाः मूलसिद्धान्तं सुदृढं करोति।
महिला–बालविकासविभागस्य प्रमुख–सचिवा लीना–जौहरी अवदत् — “कन्यापूजनं केवलं अनुष्ठानं न, अपि तु समाजाय सन्देशः, यत् कन्याः अस्माकं शक्तिः भविष्यधरोहरश्च। मिशनशक्तिः प्रत्येकां कन्यां सुरक्षित–सशक्तां कर्तुं सङ्कल्पः।”। तथा महिला–कल्याण–निर्देशिका संदीप–कौर उक्तवती — “एषः समारोहः कन्यानां प्रति सकारात्मकचिन्तनस्य विस्तारं करिष्यति। अद्य अस्माभिः ज्ञातव्यम्, यत् प्रत्येकबाला स्वपरिवार–समाजाय च उज्ज्वल–भविष्यस्य सम्भावनां वहति। मिशनशक्तिः कन्यानां सशक्तिकरणदीपः सर्वप्रदेशे प्रज्वलति।”।
हिन्दुस्थान समाचार / अंशु गुप्ता