Enter your Email Address to subscribe to our newsletters
नवदेहली, 29 सितंबरमासः (हि.स.)।
चेन्नैनगरस्थितं राष्ट्रियजैवविविधताप्राधिकरणं (एन.बी.ए.) आन्ध्रप्रदेशजैवविविधतापरिषदे रक्तचन्दनपादपप्रजातेः संरक्षणाय ८२ लक्षरूप्यकाणि स्वीकृतवदत्। अस्याः योजनायाः अन्तर्गतं एकलक्षं रक्तचन्दनपादपाः संवर्धिताः भविष्यन्ति, ये अनन्तरं कृषकानां मध्ये वितरिताः भविष्यन्ति।
पर्यावरणमन्त्रालयेन सोमवासरे प्रदत्ते एकस्मिन् वक्तव्ये उक्तं यत् एषा धनराशिः रक्तचन्दनस्य उपभोक्तृभ्यः प्राप्तलाभविभागराशेः अन्तर्गततया प्रदत्ता, या पुनः हितधारकेभ्यः संरक्षणकार्यार्थं प्रत्यागच्छ्यते। एषा धनराशिः हितधारकेभ्यः प्राप्तविक्रयमूल्यस्य वा आयस्य च अतिरिक्ता। एषा स्वीकृतिः जैवविविधताअधिनियमस्य २००२ (संशोधितः २०२३) अन्तर्गतं प्रवेश–लाभविभागयन्त्रस्य सफलं कार्यान्वयनं दर्शयति। अस्मिन् यन्त्रे जैवसंसाधनानाम् अभिगमः नियंत्र्यते, लाभस्य च न्याय्यं समं च वितरणं स्थानिकसमुदायानां, व्यक्तीनां, जैवविविधताप्रबन्धनसमितीनां च प्रति सुनिश्चितं भवति।
रक्तचन्दनः, यः दक्षिणपूर्वघाटप्रदेशस्य मूलप्रजातिः अस्ति, विशेषतः अनन्तपुर–चित्तूर–कडप–कुरनूलजिलेषु प्राप्यते, स्वस्य उच्चव्यावसायिकमूल्येन दीर्घकालात् तस्कराणां गम्भीरसङ्कटे स्थितः। एषा प्रजातिः वन्यजीवसंरक्षणाधिनियमस्य १९७२ अन्तर्गतं संरक्षिता, लुप्तप्रायप्रजातीनां अन्तरराष्ट्रीयव्यापरसम्झौ अपि सूचीबद्धा, यत्र तस्य अन्तरराष्ट्रीयव्यापरे कठोरनिषेधः प्रवर्तते। अद्यावधि एन.बी.ए. आन्ध्रप्रदेशवनविभागाय रक्तचन्दनस्य संरक्षण–सुरक्षाकार्याणि कृते ३१.५५ कोटिरूप्यकाणि अतिक्रम्य प्रदत्तवान्। स्थानिकाः जनजातीयसमुदायाश्च नर्सरीविकासे, पादपारोपणे, दीर्घकालिके संरक्षणे च सहभागी भविष्यन्ति, येन रोजगारः, कौशलविकासः, स्थानिकसंरक्षकता च प्रवर्धिष्यते।
----------
हिन्दुस्थान समाचार / अंशु गुप्ता