Enter your Email Address to subscribe to our newsletters
नारायणपुरम्/रायपुरम्, 30 सितंबरमासः (हि.स.)। सशस्त्रबलस्य सैनिकाः छत्तीसगढ़राज्यस्य नारायणपुरजनपदस्य अबूझमाडस्य घनेषु वनेषु महतीं सिद्धिं प्राप्नुवन्। मोहनार–तोयापारा मुख्यमार्गे सञ्चालिते अभियानकाले सुरक्षाबलैः बारूद्, प्रेशर–कुकर–बम, मल्टीमीटर–यन्त्रं, एकः भरमार–बन्दूकः च सह बहुसंख्यया विस्फोटकसामग्री जब्ता कृता। बम–विशेषदलस्य (Bomb Squad) अधिकारिणः स्थल एव बमं निष्क्रियं कृतवन्तः।
नारायणपुर–जिला–आरक्षक–अधीक्षककार्यालयात् प्राप्तसूचनां अनुसारं २९ सितम्बरस्य दिने धनोरा–थानाक्षेत्रे नक्सल–विरोध्यभियानस्य समये एषः सर्च–ऑपरेशन आसीत्। आईईडी–विस्फोटकस्य सम्भावनां दृष्ट्वा विशेष–विस्फोटक–निष्क्रियकरणदलम् अपि तत्र प्रेषितम्। तलाशिकाले नक्सलीगुटैः डम्प–रूपेण गुप्तं सामानम् उद्धारितम्।बरामदस्थानस्य समीपे नक्सलीयानां नेलनारक्षेत्रसमितिः सक्रियास्ति इत्यपि सूच्यते।
अस्मिन् संयुक्ताभियाने जनपदबलस्य सैनिकः, भारततिब्बतसीमा–आरक्षकस्य २९वीं वाहिन्याः “ई”–समवायस्य सदस्याः, धनोरा–थानायुक्त–जवानाश्च सम्मिलिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता