Enter your Email Address to subscribe to our newsletters
-दत्तात्रेयहोसबाले
राष्ट्रीयस्वयंसेवकसंघस्य कार्यं अधुना शतवर्षपर्यन्तं सम्पन्नं जातम्। अस्यां शतवर्षीयायात्रायां अनेकाः जनाः सहयोगिनः, सहभागी च आसन्। एषा यात्रा परिश्रममयी च कतिपय संकटैः आवृता अपि आसीत्, तथापि सामान्यजनानां समर्थनम् अस्याः सुखदः पक्षः आसीत्। अधुना शताब्दीवर्षे चिन्तयतः अस्माकं स्मृतौ ते बहवः प्रसङ्गाः, जनाश्च आगच्छन्ति येषां जीवनसमर्पणेन एषा यात्रा सफलतां प्राप्तवती।
प्रारम्भकाले ये युवा कार्यकर्तारः देशभक्तिभावेन ओतप्रोता इव, संघकार्याय देशव्यापिनि प्रान्ते प्रस्थितवन्तः। अप्पाजीजोशी इव गृहस्थकार्यकर्तारः, दादारावपरमार्थ, बालासाहेबदेवरस, भाऊरावदेवरस, यादवरावजोशी, एकनाथराणडे इत्यादयः प्रचारकस्वरूपेण, डा. हेडगेवारस्य सान्निध्ये आगत्य संघकार्यं राष्ट्रसेवारूपेण जीवनव्रतमिव स्वीकृत्य जीवनपर्यन्तं अनुवृत्तवन्तः।
संघस्य कार्यं सततम् एव समाजस्य समर्थनात् अग्रे प्रचलितम्। सामान्यजनभावनानुरूपत्वात् शनैः शनैः तस्य कार्यस्य समाजे स्वीकृतिः वर्धमाना अभवत्। स्वामीविवेकानन्देनापि एकदा विदेशे पृष्टं यत्— “भारतदेशे तव वचनानि कथं जनानाम् अवगम्यन्ते, येषां बहवः अनपठिताः, ये च आङ्ग्लभाषां न जानन्ति?” तदा स्वामिना उक्तं—“यथा शर्करां प्रति चीट्यः आङ्ग्लभाषां विना एव गच्छन्ति, तथा मम भारतजनाः स्वाध्यात्मज्ञानस्य कारणात् सात्त्विकं कार्यं त्वरितं जानन्ति, तत्र च गच्छन्ति।” सा वाणी सत्यसिद्धा अभवत्। एवं संघस्य सात्त्विकं कार्यं सामान्यजनैः निरन्तरं स्वीकृतं समर्थनं च प्राप्तम्।
संघकार्यस्य आरम्भात् एव सामान्यपरिवारैः कार्यकर्तारः आशीर्वादं, आश्रयं च प्राप्तवन्तः। स्वयंसेवकानां परिवाराः एव कार्यकेन्द्राणि आसन्। माता-भगिनीनां सहयोगेनैव कार्यस्य पूर्णता जाता। दत्तोपन्तठेंगडी, यशवंतरावकेलकर, बालासाहेबदेशपाण्डे, एकनाथराणडे, दीनदयालउपाध्याय, दादासाहेबआपटे इत्यादयः संघप्रेरणया समाजजीवनस्य विविधानि क्षेत्राणि संगठनेषु प्रतिष्ठापयितुं महत्त्वपूर्णं कार्यं कृतवन्तः। एतेषां संस्थानां वर्तमानकाले व्यापकविस्तारः स्यात्, यत्र ते समाजे सकारात्मकपरिवर्तनं जनयन्ति। राष्ट्रसेविकासमितेः माध्यमेन अपि मौसीजीकेलकर आरभ्य प्रमिलाताईमेढेपर्यन्तं बहवः मातृसमानाः व्यक्तयः राष्ट्रकार्यार्थे महत्त्वपूर्णं कार्यं कृतवन्तः।
संघेन समये-समये राष्ट्रहितस्य विषयाः अग्रे प्रस्तुताः। तेषां समर्थनं समाजस्य विविधानां वर्गाणां प्राप्तं, यत्र कतिपयः विरोधिनः अपि सार्वजनिकरूपेण सम्मिलिताः आसन्। संघस्य प्रयासः अपि अयम् आसीत् यत्—“व्यापकहिन्दुहितस्य विषये सर्वेषां सहयोगः प्राप्तव्यः।” राष्ट्रैकात्मता, सुरक्षा, सामाजिकसौहार्दः लोकतन्त्ररक्षणं धर्मसंस्कृतिरक्षणं च—एतेषु कार्येषु असंख्याः स्वयंसेवकाः अवर्णनीयकष्टानि वहन्तः शतानि बलिदानानि अपि दत्तवन्तः। तेषां सर्वेषां मध्ये समाजस्य संबलरूपेण हस्तः सदैव आसीत्।
वर्षे 1981 तमिलनाडौ मीनाक्षीपुरमे कतिपयान् हिन्दून् मतान्तरितान्। तदा आयोजिते विशालसम्मेलने यत्र पञ्चलक्षपर्यन्ताः उपस्थिताः, तस्य अध्यक्षतां कांग्रेसवरिष्ठनेता डॉ. कर्णसिंह कृतवन्तः। 1964 तमे वर्षे विश्वहिन्दुपरिषदः स्थापने स्वामीचिन्मयानन्दः, मास्टरतारासिंहः, जैनमुनिः सुशीलकुमारः, बौद्धभिक्षुः कुशोकबकुलः, नामधारीसद्गुरु जगजीतसिंहः इत्यादयः सहभागितां कृतवन्तः।
हिन्दुशास्त्रे अस्पृश्यताया न स्थानमस्ति इत्यस्य पुनः संस्थापनाय श्रीगुरुजीगोलवल्करस्य उपक्रमानुसारं उडुप्यां विश्वहिन्दुसम्मेलनम् आयोजितम्। तत्र धर्माचार्याणां संतमहन्तानां च आशीर्वादः उपस्थिति च आसीत्। यथा प्रयागसम्मेलने “न हिन्दुः पतितो भवेत्” इति प्रस्तावः स्वीकृतः, तथैव उडुप्यां “हिन्दवः सोदराः सर्वे”—सर्वे हिन्दवः भारतमातरः पुत्राः—इति उद्घोषः अभूत्। गवहत्या-निषेधः, रामजन्मभूमिअभियानम् इत्यादिषु अपि सन्तानां आशीर्वादः संघस्वयंसेवकेभ्यः प्राप्तः।
स्वातन्त्र्यानन्तरं राजनीतिककारणैः संघे निषेधः आरोपितः, तदा समाजजनाः, प्रतिष्ठितव्यक्तयः च संघपक्षे दृढतया स्थित्वा तस्मै कार्याय संबलं दत्तवन्तः। आपातकालस्य समये अपि एषः अनुभवः जातः। अतो हि बहूनां बाधानामपि मध्ये संघकार्यं अक्षुण्णं सततं च प्रवर्तते। एषु सर्वेषु परिस्थितिषु संघकार्ये स्वयंसेवकानां च धारणं मातृभगिन्याः सम्यक् अकुर्वन्। एते सर्वे संघकार्याय नित्यं प्रेरणास्रोतांसि अभवन्।
भविष्ये राष्ट्रसेवायाम् अपि समाजस्य सर्वेषां सहयोगः, सहभागिता च अपेक्ष्यते। शताब्दीवर्षे संघस्वयंसेवकाः गृहं-गृहं सम्पर्केण विशेषप्रयत्नं करिष्यन्ति। नगरात् ग्रामपर्यन्तं, सर्ववर्गेषु समाजे च सम्पर्कः लक्ष्यं भविष्यति। समग्रसज्जनशक्तेः समन्वितप्रयत्नेन राष्ट्रस्य सर्वाङ्गीणविकासस्य आगामिनी यात्रा सुगमा सफलाश्च भविष्यति।
(लेखकः, राष्ट्रीयस्वयंसेवकसंघस्य सरकार्यवाहः वर्तते।)
हिन्दुस्थान समाचार / अंशु गुप्ता