Enter your Email Address to subscribe to our newsletters
नवदिल्ली, ३० सितम्बरमासः (हि.स.)। भारतीयजनतादलस्य (भाजपा) वरिष्ठनेता विजयमल्होत्रा इत्यस्य निधनम् अभवत्। सः अद्य प्रातः राष्ट्रीयराजधानी दिल्लीस्थे ऐम्स् इत्यस्मिन् चिकित्सालये चतुर्नवतितमस्य वर्षस्य आयोः अन्तिमं श्वासं गृहीतवान्। ऐम्स् इत्यनेन सूचना प्रसारिता।
भाजपानेता मल्होत्रा गतपञ्चचत्वारिंशद्वर्षेषु दिल्लीतः पञ्चवारं सांसदः द्विवारं विधायकः च अभवत्। २००४ तमे वर्षे सामान्यनिर्वाचनेषु मल्होत्रा दिल्लीमध्ये स्वस्थानं विजित्य एकाकी भाजपादलस्य प्रत्याशी अभवत्। सम्पूर्ण राजनैतिकजीवने मल्होत्रा निर्दोषः शुचिचित्रः च नेता अभवत्। मल्होत्रा इत्यनेन हिन्दी-साहित्ये डॉक्टरेट्-उपाधिः प्राप्ता। सः राजनीति-सामाजिकक्रियासु अतिरिक्तं दिल्लीस्थेषु शतरञ्ज-धनुर्विद्याक्लबमध्येेषु प्रशासनकर्मणि अपि सम्मिलितः आसीत्।
मल्होत्रा इत्यस्य जन्म दिसम्बर
मासस्य तृतीये दिनाङ्के १९३१ तमे वर्षे अद्यत्वे यद् पाकिस्तानदेशस्य लाहौरनगरं जातम्। सः राष्ट्रीयस्वयंसेवकसंघात् निर्गत्य राजनौकायां पदं स्थापयत्। मल्होत्रा इत्यनेन दिल्लीमध्ये संघस्य विचारधारायाः प्रसाराय जनसङ्घकालतः महान् कार्यं कृतम्।
दिल्ली-भाजपाप्रदेशाध्यक्षः वीरेंद्रसचदेवा इत्यनेन उक्तं यत्, दलस्य वरिष्ठनेता तथा च दिल्ली-भाजपादलस्य प्रथमाध्यक्षः प्रोफेसर् विजयकुमारमल्होत्रा अद्य प्रातः आकस्मिकं निधनम् प्राप्तवान्। सः अवदत् यत् प्रोफेसर् मल्होत्राइत्यस्य जीवनं साधुतायै जनसेवायै च समर्पितम् आदर्शः आसीत्। अस्माभिः सर्वैः तस्य जीवनतः प्रेरणा ग्रहीतव्या।
सः अवदत् यत् प्रोफेसर् विजयकुमारमल्होत्रा देहल्याः प्रथमः विकासपुरुषः आसीत्। पटेलनगरं मोतीनगरं च संयोजयन् देहल्याः प्रथमः उड्डयनसेतुः (फ्लाईओवर) निर्माणं तेन १९७०-७५ तस्य मुख्यकार्यकारिपार्षदस्य सेवाकाले कृतम्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता