जोधपुरे होमाष्टम्यां गृहे गृहे कन्यापूजनम् – देवालयेषु प्रजाजनानाम् आस्था समुपजज्ञे, दीर्घाः पङ्क्तयः दृष्टाः
जोधपुरम्, 30 सितम्बरमासः (हि.स.)। नगरस्य अद्य नवरात्र्याः अष्टमे दिवसे होमाष्टम्याः पावने अवसरे भक्तिभावस्य विशेषः सौरभः दृश्यते स्म। गृहे गृहे कन्यापूजनं होमादिकं धार्मिकमुष्ठानं च पूजाऽर्चनया सह आचर्यते। नगरस्य प्रमुखेषु देवीमन्दिरेषु प्रभाते एव श्
jodhpur


जोधपुरम्, 30 सितम्बरमासः (हि.स.)। नगरस्य अद्य नवरात्र्याः अष्टमे दिवसे होमाष्टम्याः पावने अवसरे भक्तिभावस्य विशेषः सौरभः दृश्यते स्म। गृहे गृहे कन्यापूजनं होमादिकं धार्मिकमुष्ठानं च पूजाऽर्चनया सह आचर्यते। नगरस्य प्रमुखेषु देवीमन्दिरेषु प्रभाते एव श्रद्धालूनां दीर्घाः पङ्क्तयः दृष्टाः। भक्ताः मातरं प्रणम्य जयकारैः सह दर्शनं प्राप्तवन्तः, सुखसमृद्ध्यै च प्रार्थितवन्तः।

प्रातःकाले एव गृहेषु कन्यापूजनकार्यक्रमः प्रारब्धः। नवरात्रव्रतकारिणः जनाः अद्य कन्यापूजनं कृत्वा तासां आशीर्वादं प्राप्नुवन्। पूजनानन्तरं कन्याभ्यः उत्तमभोजनं वस्त्राणि च अर्पितानि।

नगरस्य ऐतिहासिके मेहरानगढकूटे स्थिते देव्यमन्दिरे अपि प्रभाते एव दूरतः आगताः श्रद्धालवः दर्शनाय प्राप्ताः। केचित् श्रद्धालवः पूर्वं सिद्धमनोकामनानां धन्यवादाय आगतवन्तः, अन्ये च स्वेषां कामनापूर्त्यर्थं मातरं प्रति प्रार्थितवन्तः।

मन्दिरे आगच्छन्तां भक्तानां सुरक्षा–व्यवस्थायै आरक्षकायुक्तः ओमप्रकाशस्य निर्देशनम् अधीनं विशेषव्यवस्था कृता।

मेहरानगढसंग्रहालयन्यासस्य पक्षतः अपि दर्शनार्थिभ्यः सुविधायाः प्रदाने सम्पूर्णं सहयोगं दत्तम्| सेवाभारतीसमितेः जोद्धपुरे तत्वावधाने अद्य 23 तमः सामूहिकः कन्यापूजनकार्यक्रमः आचरितः। कार्यक्रमः प्रातः 9.30 वादने सिवांचीद्वारस्थिते महेशविद्यालयपरिसरे आयोजितः। अस्मिन् वर्षे 1008 कन्याः पूजिताः। संयोजकः चेतनः सोनी नामकः उक्तवान् यत् कार्यक्रमस्य प्रारम्भे जोद्धपुरस्य सर्वे प्रमुखसन्तः, मुख्ययजमानाश्च नव कन्याः द्वौ भैरवौ च पूजितवन्तौ। ततः परं सर्वासां कन्यानां श्रृङ्गारः फलानि मिष्टान्नानि च अर्पितानि। कन्यानां गमनागमनाय 40 बसयानानां व्यवस्था कृता।

मेहरानगढे चामुण्डामन्दिरपरिसरे होमाष्टम्यां रात्रौ होमः प्रारब्धः, यस्य पूर्णाहुतिः प्रातः 1 अक्टोबरमासः नवम्यां 11.15 तः 11.50 मध्ये भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता