माघ मेलायां कोटिमितानां श्रद्धालूनां सुविधायै डिजिटलप्रयत्नः
--मेला सेवा एपद्वारा श्रद्धालुभ्यः प्रशासनेन सह योक्तुम् अभिनवः प्रयत्नः प्रयागराजः, 01 जनवरीमासः (हि.स.)। माघमेलाम् आगच्छद्भ्यः कोटिशः श्रद्धालुभ्यः उत्तमसुविधां शीघ्रसहाय्यं च प्रदातुम् उद्दिश्य मेलाक्षेत्रे विद्युत्पोलिषु क्यूआरसङ्केताधारितसुव
ऐप


--मेला सेवा एपद्वारा श्रद्धालुभ्यः प्रशासनेन सह योक्तुम् अभिनवः प्रयत्नः

प्रयागराजः, 01 जनवरीमासः (हि.स.)। माघमेलाम् आगच्छद्भ्यः कोटिशः श्रद्धालुभ्यः उत्तमसुविधां शीघ्रसहाय्यं च प्रदातुम् उद्दिश्य मेलाक्षेत्रे विद्युत्पोलिषु क्यूआरसङ्केताधारितसुविधा-प्रणाली कार्यान्विता कृता अस्ति। एषा व्यवस्था मेला-सेवा-एप्-माध्यमेन श्रद्धालून् साक्षात् प्रशासनसंगेन संयोजयितुं कृतः एको नूतनः प्रयासः अस्ति।

मेलाक्षेत्रे नियोजितेषु 15500 विद्युत्पोलिषु स्थापितं क्यूआरसङ्केतं स्कैन् कृत्वा एव श्रद्धालूनां मोबाइल्-उपकरणेषु ऑनलाइन-प्रपत्रम् उद्घाट्यते। तस्मिन् प्रपत्रे श्रद्धालवः स्वनाम, दूरभाषसङ्ख्या तथा सुरक्षा-कोड् लिखित्वा स्वशिकायतिं पञ्जीकर्तुं शक्नुवन्ति, अथवा आवश्यकां सूचनाम् अपि लब्धुं शक्नुवन्ति। विशेषता इयं यत् मेले कालखण्डे घोषयन्त्राणां कोलाहलात् दूरभाषेन शिकायतिं कर्तुं कठिनं भवति। तस्मिन् समये क्यूआरसङ्केतस्य माध्यमेन निशिदिवं (२४×७) सञ्चालिते नियन्त्रणकक्षे डिजिटलरूपेण शिकायतिः प्रेषयितुं शक्या, येन शीघ्रं निवारणं सम्भविष्यति।

क्यूआरसङ्केतं स्कैन् कृत्वा श्रद्धालवः स्वयम् एव स्वयथार्थस्थानं प्रशासनसहितं साझीकृत्य तत्क्षणमेव साहाय्यं प्राप्स्यन्ति। प्रत्येकविद्युत्पोले सम्बद्धमार्गनाम, क्षेत्रस्य नाम तथा गूगल्-कोड् (जी-कोड्) लिखितम् अस्ति, येन श्रद्धालवः सर्वदा स्वस्थानसम्बन्धिनीं सूचनां लभन्ते। प्रतेकं पञ्चविंशतिमिटरान्तरितेषु विद्युत्पोलिषु उपलब्धैः क्यूआरसङ्केतैः चिकित्सालय, पुलिसचौकी, घाट, वाहननिवेशनस्थलानि (पार्किङ्ग्) जनाश्रयस्थानानि च इत्येतासां सूचनाः अपि प्राप्यन्ते। क्यूआरसङ्केतं स्कैन् कृत्वा एव मेलाक्षेत्रस्य विस्तीर्णमानचित्रम् अपि उपलब्धं भविष्यति। यदि कोऽपि परिचितो वा बान्धवो वा नश्यति तर्हि तस्य समीपस्थितविद्युत्पोले लिखितेन गूगल्-कोडेनेव गूगल्-मानचित्रे तस्य स्थानं ज्ञातुं शक्यते।

वाहननिवेशनसमये समीपस्थपोलस्य जी-कोड् लिखित्वा धारयित्वा प्रत्यागमने तदेव स्थानं सुलभतया प्राप्यते। सर्वेषां पोलानां विशिष्टाङ्कनम् अस्ति, अत एव केवलं पोलसङ्ख्या निर्दिश्य यथार्थस्थानं तत्क्षणमेव ज्ञातुं शक्यते। तदतिरिक्तं मेला-हेल्पलाइन-सङ्ख्या 1920 अपि विस्ताररूपेण पुनःसञ्चालिता या माध्यमेन जनाः नियन्त्रणकक्षे स्वपरिवादं पञ्जीकर्तुं शक्नुवन्ति।

---------------

हिन्दुस्थान समाचार