Enter your Email Address to subscribe to our newsletters

रीवा, ०१ जनवरी (हि.स.)।मध्यप्रदेशस्य रीवा-जनपदे स्थिते बसामन-मामा-गौ-अभ्यारण्ये सहस्रशः निराश्रित-गौवंशानाम् आश्रयः दीयते। तत्रैव प्राकृतिक-कृषेः जैविक-कृषेः च अनेकाः आदर्श-प्रणाल्यः विकसिताः सन्ति। अद्य (गुरुवासरे) बसामन-मामा-गौ-अभ्यारण्ये गोलोक-दर्शन-महोत्सवः आयोज्यते। अस्य महोत्सवस्य शुभारम्भं उपमुख्यमन्त्री राजेन्द्र–शुक्लः करिष्यति।
अस्मिन् विषये गौ-अभ्यारण्य-प्रबन्धन-समितेः सचिवः डॉ.राजेश–मिश्रः अवदत् यत् बसामन-मामा-तीर्थस्य समीपे एव गौ-अभ्यारण्यं स्थितम्। अत्र आयोज्यमाने गोलोक-दर्शने सामान्य-जनाः गौशालां भ्रमित्वा गवां पूजनं कर्तुं शक्नुवन्ति। तदनन्तरं प्राकृतिक-कृषिणा कृतेषु विविधेषु प्रयोगेषु दर्शनस्य अवसरः अपि सामान्य-जनतायै लप्स्यते। गौ-अभ्यारण्ये परम्परागत-पाकशाला-रूपेण भोजन-गृहस्य निर्माणं कृतम्, यत्र देशीय-पद्धत्या निर्मितस्य परम्परागत-भोजनस्य आस्वादनम् अपि सामान्य-जनैः कर्तुं शक्यते। भोजन-शालायाः सञ्चालनं गौफार्मा-कृषक-सङ्घेन क्रियते।
डॉ.मिश्रः अवदत् यत् बसामन-मामायां विकसितेषु प्राकृतिक-कृषि-आदर्शेषु परम्परागत-बीजैः अन्न-कृषिः क्रियते। अत्र कस्यापि प्रकारस्य रासायनिक-द्रव्याणां, कीटनाशकानां, रासायनिक-उर्वरकाणां च प्रयोगः न क्रियते। केवलं गोमूत्र-गोमूत्राभ्यां निर्मितमुर्वरकाणि जैविक-कीटनाशकाः च शस्येषु उपयुज्यन्ते। गोषु त्रयस्त्रिंशत्-कोटि-देवताः वसन्तीति परम्परया मन्यते। नववर्षस्य अवसरे प्राचीन-गौसेवा-परम्परायाः अनुकरणं कृत्वा सामान्य-जनतां गौसेवया सह प्राकृतिक-कृषिणा संयोक्तुं गोलोक-दर्शन-महोत्सवः आयोज्यते।
उपमुख्यमन्त्री अद्य बसामन-मामायां समीक्षासभां करिष्यति:
उपमुख्यमन्त्री राजेन्द्र–शुक्लः अद्य बसामन-मामा-गौवंश-वन्य-विहारस्य अन्तर्गतं सञ्चालितानां क्रियाकलापानां तथा प्रचलितानां निर्माण-कार्याणां समीक्षां करिष्यति। ततः सः चित्रकूटं गमिष्यति। चित्रकूटे कामतनाथ-मन्दिरे दर्शन-पूजनं कृत्वा कामदगिरि-पर्वतस्य परिक्रमां करिष्यति। सायं पञ्चवादने मैहरं प्राप्य माता-शारदा-देव्याः दर्शनं करिष्यति। ततः रात्रौ ९.२० वादने मैहरात् रेवाञ्चल-एक्स्प्रेस-रेलयानस्य माध्यमेन भोपालं प्रस्थानं करिष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता