Enter your Email Address to subscribe to our newsletters

नव-दिल्ली, ०१ जनवरीमासः (हि.स.)। भारतीय-रेलविभागद्वारा वन्दे-भारत-रेलयान-समुच्चयस्य शयनयान-संस्करणं निर्मीय सिद्धं जातम्, अस्य उद्घाटनं अस्मिन् मासे भविष्यति। रेलमन्त्री अश्विनी-वैष्णवः गुरुवासरे अत्र उद्घोषितवान् यत् अस्मिन् मासे प्रधानमन्त्री नरेन्द्र-मोदी गुवाहाटी–हावडा-इत्यनयोः मध्ये अस्य रेलयानस्य उद्घाटनं करिष्यति।
सः अवदत् यत् एतत् रेलयानम् उभय-दिशयोः सायंकाले प्रस्थानं कृत्वा अनन्तर-दिने प्रातःकाले एव गन्तव्य-स्थानं प्राप्स्यति। षोडश-कोच-युक्ते अस्मिन् रेलयाने ११ वातानुकुलितं-३, ४ वातानुकुलितम्-२, तथा १ वातानुकुलितम्-१ कोच भविष्यन्ति। अस्मिन् आहत्य-यात्री-क्षमता ८२३ अस्ति। एकस्मिन् वातानुकुलिते-३ कोचमध्ये ५६, वातानुकुलिते-२ कोचमध्ये ४७, तथा वातानुकुलिते-१ कोचमध्ये २४ यात्रिणः उपवेशयितुं शक्यन्ते।रेलमन्त्री अवदत् यत् गुवाहाटीतः प्रस्थिते याने आसामी-भोजनं, तथा कोलकातात् (हावड़ातः) प्रस्थिते बंगाली-भोजनं प्रदास्यते। भोजन-व्यवस्थायै नवीनाः स्थानीय-विक्रेतारः अनुबद्धा: भविष्यन्ति। अस्मिन् याने कम्बल-प्रावार-उपधानादीनां यन्त्राधारित-प्रक्षालन-शुद्धीकरणस्य विशिष्टा व्यवस्था कृता अस्ति।सः अवदत् यत् कोलकाता–गुवाहाटी-इत्यनयोः मध्ये वातानुकुलितं-३-भाटक-भोजन-सहितं प्रायः २३०० रूप्यकाणि, वातानुकुलितं-२-भाटकं प्रायः ३००० रूप्यकाणि, तथा वातानुकुलितं-१-भाटकं ३६०० रूप्यकाणि भविष्यति। वन्दे-भारत-शयनयान-भाटकं स्थिरं भविष्यति; अस्य कृते नूतनं भाटक-निर्धारण-सूत्रं निश्चितम्। तत्र वातानुकुलितं-३-मध्ये प्रति-किलोमीटरं २.४० रूप्यकाणि, वातानुकुलितं-२-मध्ये ३.१०, तथा वातानुकुलितं-१-मध्ये ३.८० रूप्यकाणि भाटकं निर्धारितम्।रेलमन्त्री उक्तवान् यत् शयन-रेलयान-आलेखने (डिज़ाइन) केन्द्र-गुरुत्वम् (Center of Gravity) एका प्रमुखा यान्त्रिकीसमस्या भवति, यतः शयन-कोच-इत्येतेषु तत् ऊर्ध्वं गच्छति; अत एव शयन-संस्करणस्य आलेखनं आसन्दयान-संस्करणात् अधिकं कठिनं भवति। मध्य-उपवेशनस्थाने आरोहणं सुखकरं कर्तुं बहूनि परीक्षणानि कृतानि। मन्त्रिणः अभिप्रायः—वन्दे-भारत-शयन-रेलयानस्य यात्रा-सुखानुभवः विश्वस्य कस्यचित् अपि रेलयानात् उत्तमः भविष्यति।सः अवदत् यत् अस्यां गन्त्रौ आधुनिक-निर्जीवाणुक-तकनीकि संस्थापिता अस्ति, यया वायौ विद्यमानानां ९९.९९ प्रतिशतं विषाणूनां जीवाणूनां च विनाशः भवति। एषा सुविधा वन्दे-भारत-आसन्द-रेलयानेषु अपि उपलब्धा अस्ति। मन्त्री अवदत् यत् एषा गन्त्री ‘कवच’ सुरक्षा-प्रणाली, आपत्कालीन-टॉक-बैक्-प्रणाली, तथा अन्याभिः अत्याधुनिकाभिः सुरक्षा-सुविधाभिः सुसज्जिता भविष्यति। कोच-इत्यादय: सर्वथा नवीन-आलेखनेन निर्मिताः सन्ति। दिव्याङ्गजनानां कृते अपि विशेषाः सुविधाः उपलब्धाः करिष्यन्ते।अन्ते मन्त्री अवदत् यत् सर्वे सांसदाः स्व-स्व-क्षेत्रेषु वन्दे-भारत-रेलयानस्य सञ्चालनम् इच्छन्ति, तथा एषा गन्त्री पूर्वोत्तर-भारतस्य पूर्वी-भारतस्य च मध्ये संपर्कम् अधिकं सुदृढं करिष्यति।उल्लेखनीयम् यत् दीर्घकालात् वन्दे-भारत-शयश-रेलयानस्य याचना क्रियते स्म, यतः अद्यावधि सञ्चालितेषु वन्दे-भारत-रेलयानेषु शयश-कोच-इत्यादय: नासन्। अस्याः नव-रेलयात्रायाः आरम्भेण दीर्घयात्रा सामान्य-यात्रिभ्यः अधिका सुगमा भविष्यति।
हिन्दुस्थान समाचार / ANSHU GUPTA