कल्पतरु दिवसे नितिन नबीनो दिल्ल्याः रामकृष्ण आश्रमेऽकरोत् पूजाम्-अर्चनां च
नवदिल्ली, 01 जनवरीमासः (हि.स.)। कल्पतरुदिने भारतीयजनतापक्षस्य कार्यकारीअध्यक्षः नितिननबीनः गुरुवासरे अत्रस्थितं रामकृष्णाश्रमं समागत्य पूजाऽर्चनां च अकरोत्।अस्मिन् अवसरे सः सञ्चारमाध्यमैः सह उक्तवान् यत् “अद्य कल्पतरुदिनम्। अस्मिन् दिने रामकृष्णपर
भाजपा के कार्यकारी अध्यक्ष नितिन नबीन मीडिया से बातचीत करते हुए


नवदिल्ली, 01 जनवरीमासः (हि.स.)। कल्पतरुदिने भारतीयजनतापक्षस्य कार्यकारीअध्यक्षः नितिननबीनः गुरुवासरे अत्रस्थितं रामकृष्णाश्रमं समागत्य पूजाऽर्चनां च अकरोत्।अस्मिन् अवसरे सः सञ्चारमाध्यमैः सह उक्तवान् यत् “अद्य कल्पतरुदिनम्। अस्मिन् दिने रामकृष्णपरमहंसेन स्वशिष्यानां प्रति दिव्यदर्शनानि प्रदत्तानि। अस्मादाश्रमात् तथा रामकृष्णपरमहंसस्य सर्वेषु आश्रमेषु अद्य अपि तस्य भक्ताः तस्य आशिषं प्राप्य समाजसेवां निरन्तरं कर्तुं ऊर्जा लभन्ते।” सः सर्वेभ्यः आङ्ग्ल-नववर्षस्य शुभाशंसनं कृत्वा देशस्य विकासे सार्थकं योगदानं दातुं जनान् आह्वयत्।

रामकृष्णमिशनस्य स्वामी सर्वलोकानन्दजी महाराज उक्तवान् यत् “नितिननबीनः अद्य रामकृष्णमिशनम् आगच्छत्। अद्य अत्यन्तं शुभदिनम्, यतः अस्मिन् दिने रामकृष्णपरमहंसः कल्पतरुः (इच्छापूरयितृवृक्षः) इव जातः, सर्वेभ्यः भक्तेभ्यः आशीर्वादं दत्तवान्। केवलं भक्तेभ्यः न, अपि तु समग्रमानवजातयेऽपि आशीर्वादं दत्तवान्।”

ते रामकृष्णपरमहंसं स्वामी विवेकानन्दं च प्रति प्रार्थयन्तः अवदन् यत् ताभ्यां प्रदत्तदायित्वं सम्यक् निर्वहते आशीर्वादः प्रदीयताम्, येन ते भाजपायाः कार्यकारी-अध्यक्षत्वेन प्रदत्तं दायित्वं पूर्णनिष्ठया समर्पणेन च निर्वहन्तु।

उल्लेखनीयम् यत् कल्पतरुदिनं प्रतिवर्षं जनवरीमासस्य प्रथमे दिने आयोज्यते स्मरणार्थं तस्य घटनायाः यत्र 1886 तमे वर्षे रामकृष्णपरमहंसमहाभागेन स्वभक्तेभ्यः कल्पतरुरूपेण दिव्याशिषः प्रदत्तः, येन सः स्वस्य आध्यात्मिकशक्तिं प्रकटयत् शिष्यानां च आध्यात्मिकचेतनाम् अजागरयत्।

----------

हिन्दुस्थान समाचार