राष्ट्रिय सुरक्षापरामर्शकः युवभ्यः इतिहासाच्च शीक्षां गृहीत्वा भारतं महत् राष्ट्रं निर्मातुमाह्वानम्
नव दिल्ली, 10 जनवरीमासः (हि.स.)। अजीत डोभालः शनिवासरे युवान् प्रति दूरदर्शिनः निर्णयान् कर्तुं आह्वानं कृत्वा अवदत् यत् युवानां मनोबलमेव अग्रे गत्वा राष्ट्रस्य वास्तविकं बलं भवति। अद्य अजीत डोभालः युवा कार्यमन्त्रालयेन आयोजिते यंग लीडर्स डायलॉग
कार्यक्रम को संबोधित करते अजीत डोभाल


नव दिल्ली, 10 जनवरीमासः (हि.स.)।

अजीत डोभालः शनिवासरे युवान् प्रति दूरदर्शिनः निर्णयान् कर्तुं आह्वानं कृत्वा अवदत् यत् युवानां मनोबलमेव अग्रे गत्वा राष्ट्रस्य वास्तविकं बलं भवति।

अद्य अजीत डोभालः युवा कार्यमन्त्रालयेन आयोजिते यंग लीडर्स डायलॉग कार्यक्रमे सहभागितां कृतवान्। अस्मिन् अवसरें युवान् सम्बोधयन् सः निर्णयग्रहणस्य क्षमतां अत्यन्तं महत्त्वपूर्णां निरूपितवान् तथा च अवदत् यत् कस्यापि कर्मणः पूर्वं द्वौ पदौ अग्रे चिन्तयित्वा एव गन्तव्यम्। विकल्पानां विषये अपि पूर्वमेव विचारः करणीयः इति तेन उक्तम्।

डोभाल महोदयः अवदत् यत् वैश्विकस्तरे संघर्षः मूलतः स्वस्य मतं स्वीकर्तुं प्रयत्नरूपः एव भवति। यदि मनोबलं दुर्बलं भवति तर्हि अस्त्रशस्त्राणि अपि प्रभावहीनानि भवन्ति। अस्मिन् सन्दर्भे सः नरेन्द्र मोदी महोदयस्य प्रशंसां अपि अकरोत्।

इतिहासं महत्त्वपूर्णं पाठं इति निर्दिशन् सः अवदत् यत् यदि आगामिन्यः पीढ्यः इतिहासात् न शिक्षन्ते तर्हि तस्मात् अधिका काचिदपि त्रासदी न भविष्यति। अतीते वयं स्वस्य सुरक्षा खतरांश्च सम्यक् प्रकारेण न अवबोधयाम स्म येन इतिहासः अस्मान् कठोरान् पाठान् अशिक्षयत्। अधुना समयः आगतः अस्ति यत् वयं इतिहासात् शिक्षां गृहीत्वा देशं तां उच्चतां प्रति नयेम यत्र स्वस्य परिचयस्य आस्थायाश्च आधारभूतेन महान् भारतः निर्मातुं शक्यते।

डोभालः युवान् प्रति अवदत् यत् ते केवलं सम्यक् निर्णयान् एव न कुर्वन्तु अपि तु गृहीतान् निर्णयान् सम्यक् सिद्धान् अपि कुर्वन्तु। स्वनिर्णयेषु दृढतया स्थित्वा एव सशक्तं नेतृत्वं निर्मीयते। सः अवदत् यत् प्रेरणा क्षणिकं भवति किन्तु यदा सा जीवनस्य अनुशासनरूपेण स्वीक्रियते तदा सा आदतिरूपेण परिवर्तते।

तथैव सः निर्णयविलम्बनस्य प्रवृत्तिं परित्यज्य लग्नया सह निरन्तरं कार्यं कर्तुं बलं दत्तवान्। सः अवदत् यत् युवानां मनोबलात् एव देशस्य मनोबलं सुदृढं भवति।

---------------

हिन्दुस्थान समाचार