Enter your Email Address to subscribe to our newsletters

शिमला–नगरे, १० जनवरीमासः (हि.स.)। भाजपादलं कांग्रेस–सर्वकारस्य “सरकार गांव के द्वार” इति कार्यक्रमं प्रति प्रश्नान् उत्थापयन् अवदत् यत् एषा योजना पूर्व–भाजपा–सर्वकारस्य जनमञ्च–नमूनाया: केवलम् अनुकरणम् एव अस्ति, यस्मिन् न तादृशी संवेदनशीलता दृश्यते, न च समस्यासमाधाने प्रतिबद्धता। भाजपादलस्य प्रवक्ता संदीपनी–भारद्वाज: शनिवासरे अवदत् यत् कांग्रेस–दलेन केवलं नाम परिवर्तितम्, किन्तु जनसमस्याः प्रति तस्य भावना अद्यापि स्पष्टा नास्ति।संदीपनी–भारद्वाज: अवदत् यत् जयराम–ठाकुरस्य नेतृत्वे २०१७ तः २०२२ पर्यन्तं सञ्चालितः जनमञ्च–कार्यक्रमः केवलं एकः मञ्चः न आसीत्, अपि तु जनानां समस्यासमाधानाय विश्वसनीयं माध्यमम् आसीत्। जनमञ्च–कार्यक्रमस्य माध्यमेन सर्वकारः प्रशासनं च प्रत्यक्षतया ग्रामेषु दूरस्थ–प्रदेशेषु च गत्वा जनानां समस्याः तत्रैव समाधातुं शक्नोति स्म, येन जनाः जनपद–मुख्यालयेषु भ्रमणात् मुक्ताः अभवन्।भाजपादलस्य प्रवक्त्रा सूचितं यत् जनमञ्च–कार्यक्रमेषु ४५,७२६ सूचना: प्राप्ताः आसन्, तासु ४३,८२१ सूचनानां समाधानं कृतम्। एष: प्रायः ९५ प्रतिशत–निवारण–दर: आसीत्, यत् तदानींतन सर्वकारस्य उत्तरदायित्वं इच्छाशक्तिं च दर्शयति। सब: अवदत् यत् जनमञ्च–कार्यक्रमे प्रायः ५.३४ कोटि–रूप्यकाणि व्ययितानि, किन्तु तेन सहस्रशः जनानां समयस्य धनस्य च रक्षणं कृतम्।संदीपनी–भारद्वाजस्य अनुसारं जनमञ्च–कार्यक्रमेषु ३४,८७५ अधिकानि प्रमाणपत्राणि तत्रैव निर्गतानि, तथा ३३६ स्वास्थ्य–शिविराणि अपि आयोजितानि। एतदेव सुशासनस्य वास्तविकम् उदाहरणम् आसीत्, यस्मिन् जनाः सौविध्यं प्राप्तवन्तः प्रशासनस्य कार्यप्रणाल्यां विश्वासश्च वर्धितः।तद्विपरीतं भाजपादलस्य आरोपः अस्ति यत् कांग्रेस–सर्वकारस्य “सरकार गांव के द्वार” कार्यक्रमः केवलं भाषणेषु, छायाचित्र–ग्रहणे, प्रचार–कार्येषु च सीमितः अस्ति। संदीपनी–भारद्वाज: अवदत् यत् अस्य कार्यक्रमस्य माध्यमेन न जनाः समये प्रमाणपत्राणि प्राप्नुवन्ति, न च तेषां सूचना: समाधानं प्राप्नुवन्ति। तस्य आरोपः अस्ति यत् कांग्रेस–सर्वकारः केवलं प्रदर्शन–मात्रेण स्व–विफलताः गोपयितुं प्रयतते।
हिन्दुस्थान समाचार / अंशु गुप्ता