Enter your Email Address to subscribe to our newsletters


-यमुना नद्याः कलरवं कुर्वद्भ्यः पक्षिभ्यः अन्नकणानि खादयितानिप्रयागराजः, 10 जनवरीमासः (हि.स.)।योगी आदित्यनाथ मुख्यमन्त्रीः शनिवासरे प्रयागराज नगरे भ्रमणं कृतवान्। तत्र सः विविधेषु आध्यात्मिकेषु कार्यक्रमेषु सहभागं कृतवान्। सः संगम स्थले पवित्रं स्नानं कृत्वा विधिवत् पूजनार्चनं च अकरोत् तथा गङ्गा मातुः आरतीं निरवर्तयत्। ततः सः बड़े हनुमान मन्दिर गत्वा संकटमोचकस्य चरणेषु शिरः प्रणम्य दर्शनपूजनं च अकरोत्। मुख्यमन्त्रीः आमजनानां अभिवादनं अपि स्वीकृतवान्।
माघमेलनिमित्तं मुख्यमन्त्रीः वीआईपी घट्टात् नौकायाम् आरूढः संगमनोजं प्रति गतवान्। मार्गे नौकातः एव यमुनानद्यां कूजन्ति पक्षिणः अन्नेन पोषिताः। संगमनोजे सः माघमासस्य पावने काले स्नानं कृत्वा पूजनार्चनानन्तरं गङ्गामातुः आरतीं कृतवान्। गङ्गाचरणेषु शिरः प्रणम्य माघमेलनस्य सफलतां प्रार्थितवान्। ततः निरीक्षणं कुर्वन् नौकायाम् एव प्रत्यागतवान् तथा जनानां अभिवादनं कृतवान्।
अनन्तरं सः हनुमान कॉरिडोर इत्यस्य निरीक्षणं कृत्वा बड़े हनुमानमन्दिरे उपविष्टः दर्शनपूजनं आरतीं च विधिविधानतः अकरोत्। अस्मिन् धार्मिके प्रसङ्गे सन्तोषाचार्यः महाराजः सतुआ बाबा इति प्रसिद्धः तथा मन्त्रिणः विधायकाः अन्ये च गण्यमान्याः उपस्थिताः आसन्।
हिन्दुस्थान समाचार