Enter your Email Address to subscribe to our newsletters

कोलकाता, १० जनवरीमासः (हि.स.)। पश्चिम–बंगाल–राज्ये अवैध–कोयला–तस्करी–प्रकरणस्य अन्वेषणस्य क्रमस्य कोलकाता–नगरे सञ्चालितस्य निरीक्षण–अभियानस्य विषये प्रवर्तन–निदेशालयः (ईडी) स्वस्य विस्तृतं प्रतिवेदनं दिल्ली–स्थित–मुख्यालयं प्रति प्रेषितवान् अस्ति। शुक्रवासरे एव केन्द्रीय–गृह–मन्त्रालयेन ईडी–संस्थां प्रति पृष्टं यत् निरीक्षण–समये काः काः घटनाः अभवन्। ततः अनन्तरम् एव दिने ईडी–संस्थया सम्पूर्ण–घटनाक्रमस्य विवरणं सज्जीकृत्य दिल्लीं प्रेषितम्। अनुमानं क्रियते यत् एतत् प्रतिवेदनं केन्द्रीय–गृह–मन्त्री श्री–अमितशाहस्य कार्यालयं प्रति अपि प्रेषितुं शक्यते।सूत्रैः ज्ञायते यत् सॉल्ट–लेक–सेक्टर–पञ्च–स्थिते आई–पैक् (इण्डियन–पॉलिटिकल–एक्शन–कमिटी)–कार्यालये तथा लाउडन–मार्ग–स्थिते संस्थायाः प्रमुखस्य श्री–प्रतीक–जैनस्य निवासे सञ्चालितस्य निरीक्षण–अभियानस्य प्रत्यक्षानुभवेषु तथा घटनाक्रमाधारेण ईडी–अधिकारीभिः एतत् प्रतिवेदनं सिद्धीकृतम्। अस्मिन् प्रतिवेदने केन्द्रीय–सुरक्षा–बलानां, कोलकाता–नगर–आरक्षिण: तथा राज्य–प्रशासनस्य भूमिकायाः विस्तृतः उल्लेखः कृतः अस्ति।ईडी–सूत्राणां कथनानुसारं गृह–मन्त्रालयेन विशेषतः ज्ञातुम् इष्टं यत् निरीक्षण–समये काः बाधाः उत्पन्नाः अभवन्। तस्मात् प्रत्यक्षदर्शी–अधिकारिणां कथनानि समावेश्य प्रतिवेदनं सज्जीकृतम्। तथापि ईडी–संस्थया पूर्वमेव निर्गतायां प्रेस–विज्ञप्तौ तथा कलकत्ता–उच्च–न्यायालये समर्पितेषु कर्गदेषु तस्य दिनस्य घटनानाम् उल्लेखः कृतः अस्ति।केन्द्रीय–अन्वेषण–संस्थायाः प्रतिवेदने एतदपि आरोपितम् अस्ति यत् निरीक्षण–अभियानस्य समये मुख्यमन्त्री श्रीमती ममता–बनर्जी हस्तक्षेपं कृतवती तथा कथिततया ईडी–अधिकारीभ्यः महत्त्वपूर्णान् कर्गदान् बलात् अपहरणं कृतवती। प्रतिवेदनानुसारम् एतत् सम्पूर्णं विवरणम् अद्य दिल्लीं प्रेषितायां सञ्चिकायाम् अपि अभिलिखितः अस्ति।ईडी–संस्थया न्यायालये आवेदितं यत् श्री–प्रतीकजैनस्य लाउडन–स्ट्रीट–स्थित–निवासात् निरीक्षण–समये बहूनि डिजिटल–कर्गदानि गृहीतानि अभवन्। प्रातः प्रायः ११:१५ वादने कोलकाता–नगर–आरक्षिण: दक्षिण–क्षेत्रस्य डी.सी. श्री–प्रियब्रत–रायः तत्र आगत्य अनधिकृत–प्रवेश–सम्बद्धायाः सूचनायाः उल्लेखं कृतवान्। तदनन्तरम् ईडी–अधिकारीभिः स्व–परिचय–पत्राणि तथा निरीक्षण–आदेश–पत्रं आरक्षिणे दर्शितम्। ततः आरक्षी–आयुक्तः श्रीमनोजवर्मा अपि आगत्य सम्पूर्णस्थितिना अवगतः कृतः।ईडी–संस्थायाः कथनानुसारं मध्याह्ने प्रायः १२:०५ वादने मुख्यमन्त्री श्रीमतीममता–बनर्जी तत्र आगतवती। तां पुनः पुनः निरीक्षण–कार्ये हस्तक्षेपं न कर्तुम् अनुरोधितम्, किन्तु संस्थायाः आरोपः अस्ति यत् विधि–प्रक्रियायाः उल्लङ्घनं कृत्वा मुख्यमन्त्री ईडी–अधिकारी श्री–प्रशान्त–चाण्डिल्यस्य हस्तात् डिजिटल–कर्गदान् बलात् स्वीकृतवती तथा प्रायः १२:१५ वादने तस्मात् स्थानात् निर्गतवती।उल्लेखनीयम् अस्ति यत् अस्य सम्पूर्ण–प्रकरणस्य विषये तृणमूल–कांग्रेस–दलेन अपि कलकत्ता–उच्च–न्यायालये याचिका दत्ता, तथा ईडी–संस्थया पृथग् याचिका समर्पिता। उभयोः प्रकरणयोः श्रवणं १४ जनवरीमासपर्यन्तं स्थगितं कृतम्।
हिन्दुस्थान समाचार / Dheeraj Maithani