भारतं प्रकाशन–उद्योगे विश्वस्य तृतीयं महत्तमं केन्द्रम् — धर्मेन्द्रप्रधानः
नवदिल्ली, १० जनवरीमासः (हि.स.)। केन्द्रीय–शिक्षा–मन्त्री श्रीधर्मेन्द्र–प्रधानः शनिवासरे उक्तवान् यत् भारतं प्रकाशन–उद्योगे सम्पूर्ण–विश्वे तृतीयं महत्तमं केन्द्रं भूत्वा स्थितः अस्ति। स: अवदत् यत् डिजिटल–युगे पुस्तकानि मानवस्य श्रेष्ठतमा: मित्राणि
विश्व पुस्तक मेले के उद्घाटन समारोह में केंद्रीय शिक्षा मंत्री धर्मेन्द्र प्रधान  अतिथि।


नवदिल्ली, १० जनवरीमासः (हि.स.)। केन्द्रीय–शिक्षा–मन्त्री श्रीधर्मेन्द्र–प्रधानः शनिवासरे उक्तवान् यत् भारतं प्रकाशन–उद्योगे सम्पूर्ण–विश्वे तृतीयं महत्तमं केन्द्रं भूत्वा स्थितः अस्ति। स: अवदत् यत् डिजिटल–युगे पुस्तकानि मानवस्य श्रेष्ठतमा: मित्राणि सन्ति तथा नवदिल्ली–विश्व–पुस्तक–मेला अधुना ज्ञान–विचार–संस्कृतेः महाकुम्भः अभवत्।श्रीप्रधानः अत्र भारत–मण्डपम्–परिसरे १० तः १८ जनवरीमासपर्यन्तं प्रवर्तमानस्य त्रिपञ्चाशत्तमस्य नवदिल्ली–विश्व–पुस्तक–मेलायाः उद्घाटनं कृतवान्। सब: उक्तवान् यत् अस्मिन् मेलापके पञ्चत्रिंशत्–देशेभ्यः अधिकाः सहस्राधिकाः प्रकाशकाः भागं गृह्णन्ति। अत्र त्रिसहस्राधिकाः विक्रय–कक्षाः (स्टॉल्स्) स्थापिता: सन्ति तथा षट्शताधिकाः साहित्यिक–सांस्कृतिक–कार्यक्रमाः आयोजयिष्यन्ते।एषः एव प्रथमः अवसरः अस्ति यदा विश्व–पुस्तक–मेलापके सर्वसाधारण–जनानां कृते प्रवेशः पूर्णतया निःशुल्कः कृतः अस्ति, येन लक्षशः पाठकाः, छात्राः तथा कुटुम्बाः विनाशुल्कं मेलायां भागं ग्रहीतुं शक्नुवन्ति।शिक्षा–मन्त्री उक्तवान् यत् अस्य वर्षस्य मेलायाः विषयः“भारतीय–सैन्य–इतिहासः — शौर्यं च प्रज्ञा @75”इति निर्धारितः अस्ति। अयं विषयः स्वातन्त्र्यस्य ७५ वर्षेषु भारतीय–सशस्त्र–सेनानां शौर्यं, बलिदानं तथा राष्ट्र–निर्माणे योगदानं प्रति समर्पितः अस्ति। विषय–मण्डपे सैन्य–इतिहास–सम्बद्धाः पञ्चशताधिकानि पुस्तकानि, आदर्श–प्रदर्शनम्, १९७१ युद्धं, कारगिल–संघर्षः इत्यादिषु विषयेषु परिसंवादाः तथा युद्ध–वीरैः सह संवादः आयोजयिष्यते।श्रीप्रधानः अवदन् यत् श्रीमद्भगवद्गीतायां ज्ञानं परमं पवित्रं कथितम्। अयं मेलापक: विचार–विनिमयस्य संवादस्य च उत्सवः अस्ति। एतत् आयोजनं केवलं पुस्तकैः सह न, अपि तु राष्ट्रभक्ति–भावनाम् अपि सुदृढयति।उल्लेखनीयम् यत् विश्व–पुस्तक–मेलापक: प्रतिदिनं प्रातः ११ वादनात् रात्रौ ८ वादनपर्यन्तम् उद्घाटितः भविष्यति। प्रवेशायद्वारम्–१० (मथुरा–मार्गे, प्रगति–मैदान–मेट्रो–स्थानकात् सीधासम्बद्धम्), द्वारम्–३ तथा ४ (भैरों–मार्गे), द्वारम्–६ (मथुरा–मार्गे) उपलब्धानि सन्ति।वाहन–स्थापनाय भारत–मण्डपम्–परिसरे अधःस्थ–तल–पार्किङ् तथा मुक्त–पार्किङ्–व्यवस्था कृतास्ति, यस्य अन्तर्गतं भैरों–मार्गस्य समीपे बी–१ तथा बी–२ अधःस्थ–पार्किङ् अपि सन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता