Enter your Email Address to subscribe to our newsletters


रांची, 10 जनवरीमासः (हि.स.)।
पुन्दागस्थे श्रीराधाकृष्णप्रणामीमन्दिरे श्रीकृष्णप्रणामीसेवाधामसमितेः तत्वावधानायां आयोजितायाः त्रिदिवसीयायाः श्रीमद्भागवत-कृष्णकथायाः द्वितीये दिने शनिवासरे श्रद्धायाः भक्तेः च अद्भुतः सङ्गमः दृष्टः। अस्मिन् अवसरे मन्दिरप्राङ्गणं “राधे-राधे” “जय श्रीकृष्ण” इति गगनभेदीजयघोषैः प्रतिध्वनितम्। सम्पूर्णं वातावरणं भक्तिरसेन परिपूर्णम् अभवत्।
कार्यक्रमे मुख्यातिथिरूपेण राज्यसभासांसदः दीपकप्रकाशः उपस्थितः आसीत्। सः मन्दिरस्य परिक्रमां कृत्वा ईश्वरस्य आशीर्वादं प्राप्तवान्, गुरुजीस्य चरणौ स्पृष्ट्वा राज्यवासिनां सुख-शान्ति-समृद्ध्यै प्रार्थनां कृतवान्।
कथायाः द्वितीये दिने विख्यातः कथावाचकः श्रीश्री 108 परमहंसः डॉ. सदानन्दजी महाराजः स्वस्य ओजस्विन्या वाण्या भावपूर्णैः प्रवचनैः च श्रद्धालून् श्रीकृष्णस्य दिव्यलीलारसं आस्वादयामास। महाराजः श्रीकृष्णस्य बाललीलाभ्यः कथायाः शुभारम्भं कृत्वा पुतनावधः, गोवर्धनपर्वतधारणम्, भगवान् शिवेन कृतं श्रीकृष्णदर्शनम्, कंसोद्धारः इत्यादीनां प्रसङ्गानां हृदयस्पर्शिनं वर्णनं कृतवान्। गोपी-उद्धवसंवादेन निष्कामभक्तेः महिमा प्रकाशिता, रुक्मिणीविवाहप्रसङ्गे नारीसम्मानस्य धर्मनिष्ठायाश्च सन्देशः दत्तः। श्रीकृष्ण-सुदामयोः मित्रतावर्णनं श्रुत्वा अनेके श्रद्धालवः भावविह्वलाः अभवन्। कथायाः समापनं रासलीलायाः मनोहरवर्णनेन सह अभवत्। प्रत्येकप्रसङ्गस्य सह सजीवाः झाङ्क्यः मधुराश्च भजनानि प्रस्तुतानि, येन कथा अधिकं प्रभावशालिनी अभवत्।
मन्दिरप्राङ्गणं नानावर्णैः पुष्पैः गुब्बारैश्च भव्यतया अलङ्कृतम् आसीत्। श्रीराधाराण्याः अलौकिकः शृङ्गारः श्रद्धालूनां आकर्षणस्य केन्द्रम् अभवत्। विधिवत् पूजाऽर्चनानन्तरं प्रसादवितरणं कृतम्।
समितेः प्रवक्ता संजयसर्राफः अवदत् यत् रविवासरे कथायाः तृतीये अन्तिमे दिने प्रातः ९ वादनात् ११ वादनपर्यन्तं श्रीकृष्णस्य अन्तर्ध्यानप्रसङ्गे कथा भविष्यति। कार्यक्रमे बहुसंख्यकाः श्रद्धालवः गणमान्याश्च उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार