पर्यटन–उद्योगस्य हितधारकानां मध्ये सहयोगम् अधिकं गभीरं करिष्यति ‘लाइटहाउस–महोत्सवः’ — नायडू
विशाखापट्टनम्, १० जनवरीमासः (हि.स.)। अत्र एम.जी.एम.–उद्यानस्य परिसरे भारतीय–लाइटहाउस–महोत्सवस्य तृतीय–संस्करणस्य उद्घाटनं पूर्व–उपराष्ट्रपतिना श्री–वेंकैया–नायडू–महाशयेन कृतम्। कार्यक्रमस्य अध्यक्षता केन्द्रीय–पत्तन–पोत–परिवहन–जलमार्ग–मन्त्री श्री–
कार्यक्रम मे पूर्व उपराष्ट्रपति वेंकैय्या नायडु और सर्वानंद सोनोवाल


विशाखापट्टनम्, १० जनवरीमासः (हि.स.)। अत्र एम.जी.एम.–उद्यानस्य परिसरे भारतीय–लाइटहाउस–महोत्सवस्य तृतीय–संस्करणस्य उद्घाटनं पूर्व–उपराष्ट्रपतिना श्री–वेंकैया–नायडू–महाशयेन कृतम्। कार्यक्रमस्य अध्यक्षता केन्द्रीय–पत्तन–पोत–परिवहन–जलमार्ग–मन्त्री श्री–सर्बानन्द–सोनोवालेन कृता।एषः द्विदिवसीयः सांस्कृतिक–महोत्सवः पारम्परिक–व्यञ्जनैः, नृत्य–नाट्य–प्रस्तुतिभिः, क्रियाकलाप–क्षेत्रैः तथा तटीय–संस्कृतेः आस्वादैः सहितम् आयोजितम् अस्ति।पत्तन–पोत–परिवहन–जलमार्ग–मन्त्रालयस्य अनुसारं प्रथम–दिने (शुक्रवासरे) ३५०० तः अधिकाः जनाः महोत्सवे सम्मिलिताः अभवन्। अस्मिन् अवसरे श्री–वेंकैया–नायडू अवदत् यत् अयं महोत्सवः लाइटहाउस–पर्यटनाय नूतनाम् ऊर्जां दास्यति तथा पर्यटन–उद्योगस्य सर्वेषां हितधारकानां मध्ये सहयोगम् अधिकं गभीरं करिष्यति।महोत्सवे क्षेत्रीय–सांस्कृतिक–प्रस्तुतयः, कला–शिल्प–विपणयः तथा लाइटहाउस-इत्यस्य रात्रिकालीन–दीप–प्रकाशनम् इत्यादयः आकर्षणानि सन्ति, ये स्थानीय–तटीय–संस्कृतिं प्रवर्धयन्ति तथा आर्थिक–विकासाय गतिकरणं कुर्वन्ति।उद्घाटन–समारोहस्य अवसरे ४० तः अधिकाः स्व–सहायता–समूहानां स्तम्भाः स्थापिताः, येषु हस्तशिल्पानि, स्थानीय–उत्पादाः तथा तटीय–व्यञ्जनानि प्रदर्शितानि। एतत् महिलाभिः सञ्चालितायाः उद्यमितायाः तथा सामुदायिक–भावनायाः प्रेरणादायकं उदाहरणम् आसीत्। श्रीनायडू अवदत् यत् आन्ध्रप्रदेशस्य १७ लाइटहाउस–केन्द्रेषु १० पर्यटनाय विकसितानि सन्ति।केन्द्रीयमन्त्री श्रीसर्बानन्द–सोनोवालः अवदत् यत् अधुना लाइटहाउस-इत्येते केवलं नौवहन–संकेतकाः न सन्ति, अपि तु पर्यटनस्य, संस्कृतेः तथा स्थानीय–उद्यमस्य जीवन्त–केन्द्राणि जातानि। मोदी–सर्वकारः तटीय–समुदायान् सशक्तीकृत्य एतानि ऐतिहासिक–संरचनानि भारतस्य सामुद्रिक–परम्परायाः जीवित–प्रतीकत्वेन विकसितं करोति।महोत्सवे पूर्वोत्तर–भारतस्य लोकनृत्य–प्रस्तुतयः अपि विशेषम् आकर्षणत्वेन अभवन्। मणिपुरस्य “पुङ्–चोलम्”, अरुणाचल–प्रदेशस्य “गालो–नृत्यम्”, मिजोरमस्य “चेराव”, त्रिपुरायाः “संग्रैन”, मेघालयस्य “वाङ्गला”, नागालैण्डस्य “कबुई”, सिक्किमस्य “मरौनी” तथा असमस्य “बिहू–नृत्यम्” इत्यादीनि प्रस्तुतानि अभवन्।उद्घाटन–समारोहः आन्ध्र–प्रदेशस्य पर्यटन–संस्कृति–मन्त्री श्रीकन्दुलादुर्गेशः, सांसदः श्रीसी.एम.रमेशः, विधायकाः, पोत–नौवहन–मन्त्रालयस्य सचिवः श्रीविजयकुमारः तथा अन्ये वरिष्ठ–अधिकारिणः उपस्थिताः आसन्।उल्लेखनीयम् अस्ति यत् भारतस्य ११,००० कि.मी. दीर्घः समुद्र–तटः तथा २०५ लाइटहाउस–केन्द्राणि पर्यटन–सांस्कृतिक–स्थलरूपेण विकसितुं प्रधानमन्त्रिणः “मन–की–बात”–कार्यक्रमे आह्वानानन्तरं राष्ट्रव्यापी–गतिं प्राप्नुवन्ति।“मेरिटाइम–इण्डिया–विजन–२०३०” तथा “अमृत–काल–विजन–२०४७” इत्यनुसारम् अद्यावधि ७५ लाइटहाउस–केन्द्राणि आधुनिक–सुविधाभिः सह विकसितानि सन्ति। प्रथमः भारतीय–लाइटहाउस–महोत्सवः २०२३ तमे वर्षे गोवा–राज्यस्य “फोर्ट–अगुआड़ा”–स्थले आयोजितः, द्वितीयः च २०२४ तमे वर्षे ओडिशा–राज्यस्य पुरी–नगरे सम्पन्नः।

हिन्दुस्थान समाचार / Dheeraj Maithani