भोपालम् - द्विदिवसीयायाः 45तमायाः अखिल भारतीय गुलाब प्रदर्शन्याः जातो भव्यः शुभारंभः
- स्थलपद्मस्य नूतन-नूतनप्रजातीनां प्रेमिणः आकर्षिताः भोपालम्, 10 जनवरीमासः (हि.स.)। मध्यप्रदेशस्य राजधान्याः भोपालनगरस्य प्रसिद्धे स्थलपद्मोद्याने आयोजितायाः द्विदिवसीयायाः पञ्चचत्वारिंशत्तम्याः अखिलभारतीयगुलाबप्रदर्शन्याः शनिवासरे विधायकः रामे
45वीं अखिल भारतीय गुलाब प्रदर्शनी


45वीं अखिल भारतीय गुलाब प्रदर्शनी


- स्थलपद्मस्य नूतन-नूतनप्रजातीनां प्रेमिणः आकर्षिताः

भोपालम्, 10 जनवरीमासः (हि.स.)। मध्यप्रदेशस्य राजधान्याः भोपालनगरस्य प्रसिद्धे स्थलपद्मोद्याने आयोजितायाः द्विदिवसीयायाः पञ्चचत्वारिंशत्तम्याः अखिलभारतीयगुलाबप्रदर्शन्याः शनिवासरे विधायकः रामेश्वरशर्मा शुभारम्भं कृतवान्। अस्मिन् अवसरि तेन नानावर्णानां सुगन्धितानां च गुलाबानां विविधप्रजातीनां अवलोकनं कृत्वा आयोजनस्य प्रशंसा कृता। एषा प्रदर्शनी एकादशे जानेवारीमासे प्रातः दशवादनात् सामान्यजनानां कृते उद्घाटिता भविष्यति।

विधायकः शर्मा अस्मिन् अवसरे अवदत् यत् एतादृशाः प्रदर्शिन्यः न केवलं उद्यानविद्यां (बागवानी) प्रोत्साहयन्ति, अपि तु पर्यावरणसंरक्षणं सौन्दर्यबोधं च वर्धयन्ति। गुलाबप्रदर्शन्यां बहुसंख्यकाः नागरिकाः, उद्यानविद्याप्रेमिणः तथा विद्यार्थीणः उपस्थिताः आसन्। प्रदर्शन्यां देशीय-विदेशीयगुलाबानां आकर्षकाः जातयः जनानां आकर्षणकेन्द्रं अभवन्। कार्यक्रमे ‘बगियायां गुलाबाः’ तथा ‘घटेषु (गमलेषु) गुलाबाः’ इति प्रतियोगितयोः विजेतॄभ्यः पुरस्काराः प्रदत्ताः।

उद्यानिकी-खाद्यप्रसंस्करण-आयुक्तः अरविन्ददुबे अवदत् यत् राजधानीस्थिते गुलाबोद्यानपरिसरे प्रतिवर्षं उद्यानिकीविभागेन रोज-सोसाइट्या सह गुलाबप्रदर्शन्याः आयोजनं क्रियते। भोपालनगरस्य गुलाबप्रेमिणः अस्यां प्रदर्शन्यां गुलाबानां देशीयाः विदेशीयाः च जातयः द्रष्टुम् अवसरं प्राप्नुवन्ति। राज्यसरकारेण पुष्पोत्पादनं विशेषतया प्रोत्साह्यते; अस्य अन्तर्गतं प्रत्येकस्मिन् जिलो तत्रत्यजलवायोः अनुकूलं पुष्पोत्पादनं प्रोत्साहयितुं निर्णयः कृतः।

वर्ल्ड्-फेडरेशन्-ऑफ्-रोज्-सोसाइट्याः अध्यक्षः सुशीलप्रकाशः अवदत् यत् रोज-सोसाइट्या भोपालनगरस्य वैश्विकस्तरे परिचितिं दातुं निरन्तरं प्रयत्नाः क्रियन्ते। सोसाइट्या भोपालनगरस्य बीएचईएल-उद्यानम्, विधानसभा-परिसरस्य उपवनम् तथा मिण्टो-हॉल्-उद्यानं गुलाबोद्यानरूपेण विकसितं क्रियते। जनवरी–२०२८ तमे वर्षे भोपालनगरि विश्वस्तरीयगुलाबप्रदर्शन्याः आयोजनं प्रस्तावितम् अस्ति।

स्थलपद्मप्रदर्शन्याः समापनं एकादशे जानेवारीमासे भविष्यति। तस्मिन् दिने सायं पञ्चवादने उद्यानिकी-खाद्यप्रसंस्करणमन्त्री नारायणसिंहकुशवाहः गुलाबोद्यानपरिसरे आयोजिते द्विदिवसीयगुलाबप्रदर्शन्याः समापनसमारोहें सहभागी भविष्यति तथा कट्-फ्लावर्-श्रेण्यां विजेतॄणां पुरस्कारवितरणं करिष्यति।

हिन्दुस्थान समाचार