मध्यप्रदेशे नगर–ग्रामीण–क्षेत्रेषु अद्य एकसार्धं स्वच्छ–जल–अभियानस्य शुभारम्भः भविष्यति, मुख्यमन्त्री शुभारम्भं करिष्यति
भोपालनगरम्, १० जनवरीमासः (हि.स.)।मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहन–यादवः शनिवासरे, १० जनवरीमासे, सायं ५ वादने मुख्यमन्त्री–निवासे स्थितात् समत्व–भवनात् “स्वच्छ–जल–अभियानस्य” शुभारम्भं करिष्यति। एतदभियानं नगर–ग्रामीण–क्षेत्रेषु एकसार्धम् आरभ्स्यते।
सीएम मोहन यादव (फाइल फोटो)


भोपालनगरम्, १० जनवरीमासः (हि.स.)।मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहन–यादवः शनिवासरे, १० जनवरीमासे, सायं ५ वादने मुख्यमन्त्री–निवासे स्थितात् समत्व–भवनात् “स्वच्छ–जल–अभियानस्य” शुभारम्भं करिष्यति। एतदभियानं नगर–ग्रामीण–क्षेत्रेषु एकसार्धम् आरभ्स्यते।अभियान–शुभारम्भ–कार्यक्रमे प्रदेशस्य महापौरा:, नगरपालिका–निगम–अध्यक्षाः, नगरपालिका–परिषद्–अध्यक्षाः, नगर–पञ्चायत–अध्यक्षाः, पञ्चायत–एवं–ग्रामीण–विकास–विभागस्य, नगरीय–प्रशासन–विभागस्य तथा लोक–स्वास्थ्य–यान्त्रिकी–विभागस्य राज्य–स्तरीय–जनपद–स्तरीय–अधिकारिण: च वीडियो–सम्मेलन–माध्यमेन सहभागं करिष्यन्ति।जनसम्पर्क–अधिकारिणी अवन्तिका–जायसवाल: सूचितवति यत् अस्य अभियानस्य मुख्यम् उद्देश्यं सर्वेषु नगर–ग्रामीण–क्षेत्रेषु पेय–जल–गुणवत्तायाः व्यापकं परीक्षणं कर्तुम् अस्ति। तथा जल–आपूर्ति–प्रणाल्यां लीकेज–दोषाणां, दूषित–जलस्य च ज्ञानं कृत्वा यथासमयं संशोधनं क्रियते, येन जल–जन्य–रोगेभ्यः संरक्षणं सम्भवेत्।

हिन्दुस्थान समाचार / Dheeraj Maithani