Enter your Email Address to subscribe to our newsletters

क्षमता–विकास–नमूना–कर्गदस्य विमोचनम्, नवाचार–आधारित–पुस्तिकायाः प्रकाशनम् तथा लोकपथ–२.०–ऐप–इत्यस्य लोकार्पणम्
भोपालनगरम्, १० जनवरीमासः (हि.स.)।मध्यप्रदेशे मुख्यमन्त्री डाॅ.मोहन–यादव–महाशयस्य मुख्यातिथ्ये अद्य शनिवासरे भोपाल–नगरस्य रवीन्द्र–भवने लोक–निर्माण–विभागस्य राज्य–स्तरीय–कार्यक्रमः सह प्रशिक्षण–सत्रम् आयोज्यते। अयं कार्यक्रमः विभागीय–नवाचारान्, डिजिटल–प्रयत्नान् तथा अभियन्तॄणां क्षमता–विकासं प्रति समर्पितः भविष्यति।लोक–निर्माण–मन्त्री राकेश–सिंह: सूचनां दत्त्वा अवदत् यत् अस्मिन् कार्यक्रमे सम्पूर्ण–प्रदेशात् १५०० तः अधिकाः अभियन्तारः सहभागितां करिष्यन्ति। तेन उक्तं यत् अस्मिन् अवसरे लोक–निर्माण–विभागेन निर्मितस्य क्षमता–विकास–नमूना–कर्गदस्य विधिवत् विमोचनं भविष्यति, यत् अभियन्तॄणां निरन्तर–प्रशिक्षणाय, कौशल–उन्नयनाय तथा आधुनिक–परियोजना–प्रबन्धनाय मार्गदर्शकरूपेण सिद्धं भविष्यति।मन्त्री राकेश–सिंह: अवदत् यत् कार्यक्रमे लोकपथ–मोबाइल–ऐप–इत्यस्य उन्नत–संस्करणम् — लोकपथ–२.० इत्यस्य लोकार्पणम् अपि भविष्यति। अयं ऐप-मार्ग–संरक्षण–निरीक्षणस्य, नागरिक–सूचनानां शीघ्र–निवारणस्य, मार्ग–योजना–निर्माणस्य, ब्लैक–स्पॉट–सचेतनस्य, आपत्कालीन–SOS–सुविधायाः तथा मार्ग–पार्श्वे उपलब्ध–सुविधानां सूचनाया: माध्यमेन नागरिकेभ्यः समग्रं, उपयोगकर्ता–अनुकूलम्, आधुनिकं च डिजिटल–मञ्चं प्रदास्यति।मन्त्री–सिंह: उक्तवान् यत् अनेन सह विभागेन विगत–द्वि–वर्षयोः कृतानां नवाचार–एवम्–संशोधनात्मक–प्रयासानाम् आधारेण निर्मितायाः पुस्तिकायाः विमोचनम् अपि भविष्यति। अस्यां पुस्तिकायां डिजिटल–समाधानानि, गुणवत्ता–नियन्त्रणम्, पर्यावरण–संरक्षणम्, नूतन–निर्माण–प्रविधयः तथा आधुनिक–प्रबन्धन–प्रणाल्य: प्रस्तुताः सन्ति।तथा च कार्यक्रमस्य द्वितीय–सत्रे लोक–निर्माण–विभागस्य अभियन्तॄणां कृते हाइब्रिड–एन्युटी–मॉडल (HAM) विषये विशेष–प्रशिक्षणं प्रदास्यते, येन ते विशाल–मार्ग–एवम–बाइपास–परियोजनानां प्रौद्योगिकी-वित्तीय-गुणवत्ता–सम्बद्ध–पक्षानां प्रभावी–निरक्षणं कर्तुं समर्थाः भविष्यन्ति।मन्त्री–सिंह: अवदत् यत् एषः कार्यक्रमः प्रशिक्षणं च“लोक–निर्माणात् लोक–कल्याणम्” इति अवधारणां सुदृढीकृत्य मध्यप्रदेशे सुरक्षितां, गुणवत्तायुक्तां, भविष्य–उन्मुखां च मार्ग–अवसंरचनां प्रति एकं महत्त्वपूर्णं पदम् सिद्धं भविष्यति।
हिन्दुस्थान समाचार / Dheeraj Maithani