Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, १० जनवरीमासः (हि.स.)।मध्यप्रदेशस्य मुख्यमन्त्री डाॅ.मोहन–यादवः अद्य शनिवासरे सागर–जनपदे प्रवासे स्थास्यति। स: अत्र खुरई–तहसील–मुख्यालये आयोज्यमाने कार्यक्रमे सम्मिल्य विविधानां विकास–कार्याणाम् उपजहारं दास्यति।कार्यक्रमे मुख्यमन्त्री डाॅ.यादवः ३१२ कोटि रूप्यकाणां मूल्यवत्तायाः ८६ निर्माण–कार्याणां लोकार्पणं भूमिपूजनं च करिष्यति। एतन्मध्ये १६५ कोटि मूल्यवत्तायाः ३८ विकास–कार्याणां लोकार्पणं, तथा १४७ कोटि मूल्यवत्तायाः ४८ विकास–कार्याणां भूमिपूजनं च सम्मिलितम् अस्ति।जनसम्पर्क–अधिकारिणी सौम्या–समैया सूचितवती यत् मुख्यमन्त्री डाॅ.यादवः कार्यक्रमे विभिन्न जन–कल्याण–योजनासु हितलाभं वितरिष्यति। ततः कार्यक्रम–स्थले विभागैः आयोजिता प्रदर्शिनीम् अपि से: अवलोकयिष्यति।खुरई–प्रवासस्य अवसरे मुख्यमन्त्री डाॅ.यादवः मार्ग–प्रदर्शने सम्मिल्य नागरिकाणाम् अभिवादनं करिष्यति।
हिन्दुस्थान समाचार / Dheeraj Maithani