भाजपा–प्रदेश–अध्यक्षः हेमन्त–खण्डेलवालः अद्य रतलाम–नगर–प्रवासे, विविधेषु कार्यक्रमेषु सम्मिलित: भविष्यति।
भोपालनगरम्, १० जनवरीमासः (हि.स.)।भारतीय–जनता–पक्षस्य (भाजपा) प्रदेश–अध्यक्षः हेमन्त–खण्डेलवालः अद्य शनिवासरे एकदिवसीय–रतलाम–प्रवासे स्थास्यति।भाजपा–प्रदेश–अध्यक्षः हेमन्त–खण्डेलवालः अद्य प्रातः ११.३० वादने रतलाम–नगरस्य बडबड–मार्गस्थिते विधायक–सभागृ
भाजपा प्रदेश अध्यक्ष हेमंत खण्डेलवाल


भोपालनगरम्, १० जनवरीमासः (हि.स.)।भारतीय–जनता–पक्षस्य (भाजपा) प्रदेश–अध्यक्षः हेमन्त–खण्डेलवालः अद्य शनिवासरे एकदिवसीय–रतलाम–प्रवासे स्थास्यति।भाजपा–प्रदेश–अध्यक्षः हेमन्त–खण्डेलवालः अद्य प्रातः ११.३० वादने रतलाम–नगरस्य बडबड–मार्गस्थिते विधायक–सभागृहे प्रदेश–शासनस्य मन्त्रिणा चैतन्य–काश्यप–महाशयेन सह मेधावी–छात्र–प्रतिभा–सम्मान–समारोह-कार्यक्रमे सम्मिलित: भविष्यति।अपराह्णे १.३० वादने सखवाल–नगरस्य डाॅ.भीमराव–आम्बेडकर–मण्डलस्य बूथ–क्रमाङ्क–५५ स्थिते बूथ–अध्यक्ष–अमन–वोयत–महाशयस्य निवासं गत्वा भोजनं करिष्यति।अपराह्णे २.१५ वादने सैलाना–मार्गस्थिते अतिथि–उद्याने वीबी–जी रामजी–योजनाया: विषये आयोजितां पत्रकार–वार्तां सम्बोधनं कृत्वा, अपराह्णे ३ वादने जनपदसभां सम्बोधयिष्यति।प्रदेश–अध्यक्षः खण्डेलवालः सायं ४.१५ वादने वीबी–जी रामजी–योजनायाः जन–जागरण–अभियान–सभायां सम्मिलिष्यति। सायं ५.४५ वादने लघु–टोली–सभायां, तथा सायं ७ वादने सामाजिक–पत्रकार–टोली, आई–टी–टोली तथा मन–की–बात–टोली–समासु सम्मिलित: भविष्यति।

हिन्दुस्थान समाचार / Dheeraj Maithani