Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 10 जनवरीमासः (हि.स.)।
भारतीयजनतापक्षस्य (भाजपा) राष्ट्रीयकार्यकारीाध्यक्षः नितिननबीनः शनिवासरे दिल्लीस्थिते कनॉटप्लेसक्षेत्रे प्राचीनशिवमन्दिरे आशुतोषभगवतः शंकरस्य दुग्धाभिषेकं कृतवान्, ततः पश्चात् प्राचीनहनुमन्मन्दिरे पूजां च अकरोत्।सः अद्य शिवमन्दिरं प्राचीनहनुमन्मन्दिरं च गत्वा समस्तदेशवासिनां सुखसमृद्ध्यर्थं प्रार्थनां कृतवान्।
अस्मिन्नेव अवसरे तेन सह दिल्लीभाजपाप्रदेशाध्यक्षः वीरेंद्रसचदेवः, दिल्लीस्य जलमन्त्री प्रवेशवर्मा, सांसद् बांसुरीस्वराजा, भाजपाया राष्ट्रियकार्यालयमन्त्री महेन्द्रपाण्डेयः, नवन्दिल्ल्याः भाजपाजिलाध्यक्षः रविन्द्रचौधरी, मीडियारिलेशनप्रमुखः विक्रममित्तलः तथा अन्ये बहवः भाजपानेतारः उपस्थिताः आसन्।अस्मिन् समये भाजपाकार्यकर्तारोऽपि जलाभिषेकं कृतवन्तः।
सचदेवेन उक्तं यत् अद्य दिल्लीस्थेषु सर्वेषु स्थानीयमन्दिरेषु सोमनाथाभिमानपर्व आचर्यते, अस्य च अवसरॆ प्रायः एकलक्षं कार्यकर्तारः भगवान् शिवं पूजयन्ति स्म।
---------------
हिन्दुस्थान समाचार