प्रधानमंत्री मोदी अद्यारभ्य 3 दिवसीये गुजरातभ्रमणे , सोमनाथे पूजोत्तरं राजकोट-अहमदाबादं गमिष्यति
सोमनाथः, 10 जनवरीमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी स्वगृहराज्यं गुजरातं प्रति त्रिदिवसीयां यात्रां करिष्यति। एषा यात्रा १० जनवरीतः १२ जनवरीपर्यन्तं भविष्यति। अस्यां यात्रायां सः सोमनाथे, राजकोटे, अहमदाबादे, गांधीनगरे च धार्मिकेषु, सांस्कृत
प्रधानमंत्री नरेंद्र मोदी


सोमनाथः, 10 जनवरीमासः (हि.स.)।

प्रधानमन्त्री नरेन्द्रमोदी स्वगृहराज्यं गुजरातं प्रति त्रिदिवसीयां यात्रां करिष्यति। एषा यात्रा १० जनवरीतः १२ जनवरीपर्यन्तं भविष्यति। अस्यां यात्रायां सः सोमनाथे, राजकोटे, अहमदाबादे, गांधीनगरे च धार्मिकेषु, सांस्कृतिकेषु, औद्योगिकेषु तथा अन्ताराष्ट्रियस्तरीयेषु बहुषु महत्त्वपूर्णेषु कार्यक्रमेषु सहभागं करिष्यति।

१० जनवरी

प्रधानमन्त्री १० जनवरीस्य सायंकाले सोमनाथं प्राप्स्यति। तत्र सः सोमनाथमन्दिरसमितेः उपवेशनस्य अध्यक्षतां करिष्यति। तदनन्तरं रात्रौ प्रायः अष्टवादने ‘ॐकारमन्त्रजापे’ सहभागं करिष्यति तथा मन्दिरपरिसरे आयोजितस्य भव्यस्य ड्रोन-प्रदर्शनस्य अवलोकनं करिष्यति।

११ जनवरी

११ जनवरीस्य प्रातःकाले प्रायः नववादन-पञ्चचत्वारिंशत्समये प्रधानमन्त्री शौर्ययात्रायां भागं करिष्यति। एषा यात्रा सोमनाथमन्दिरस्य रक्षणार्थं स्वप्राणान् उत्सृज्य बलिदानं कृतवतां वीरयोद्धॄणां श्रद्धाञ्जल्यर्थं आयोज्यते। ततः प्रातः प्रायः दशवादन-पञ्चदशसमये सः सोमनाथमन्दिरे दर्शनं पूजां च करिष्यति।

सोमनाथकार्यक्रमानन्तरं प्रधानमन्त्री राजकोटं गमिष्यति। तत्र सः कच्छ-सौराष्ट्रप्रदेशयोः कृते आयोजिते ‘वाइब्रेंट् गुजरात्’ क्षेत्रीयसम्मेलने सहभागं करिष्यति। अपराह्णे प्रायः एकवादन-त्रिंशत्समये सः व्यापारप्रदर्शनस्य उद्घाटनं करिष्यति। ततः अपराह्णे द्विवादने मारवाडी-विश्वविद्यालये सम्मेलनस्य औपचारिकं उद्घाटनं कृत्वा जनसभां सम्बोधयिष्यति।

तदनन्तरं प्रधानमन्त्री राजकोटतः अहमदाबादं प्राप्स्यति। सायंकाले प्रायः पञ्चवादन-पञ्चदशसमये सः महात्मामन्दिर-मेट्रो-स्थाने अहमदाबाद्-मेट्रो-द्वितीयचरणस्य सेक्टर-१०A तः महात्मामन्दिरपर्यन्तं शेषभागस्य उद्घाटनं करिष्यति।

१२ जनवरी

प्रधानमन्त्रिणः निमन्त्रणेन जर्मनीदेशस्य चान्सलरः फ्रेडरिक् मर्ज़ १२ तथा १३ जनवरीयोः भारतस्य आधिकारिकां यात्रां करिष्यति। अस्मिन् अवसरॆ प्रधानमन्त्री तेन सह द्विपक्षीयां वार्तां करिष्यति।

१२ जनवरीस्य प्रातःकाले प्रायः नववादन-त्रिंशत्समये प्रधानमन्त्री जर्मनीदेशीयचान्सलरेण सह साबरमती-आश्रमस्य दर्शनं करिष्यति। ततः प्रातः दशवादने उभौ नेता साबरमती-नदीतटे आयोजिते अन्ताराष्ट्रियपतङ्गमहोत्सवे सहभागं करिष्यतः।

प्रातः एकादशवादन-पञ्चदशसमयात् गांधीनगरस्थिते महात्मामन्दिरे प्रधानमन्त्रीमोदीः जर्मनीदेशीयचान्सलरेण सह द्विपक्षीयां बैठकां करिष्यति। अस्यां संगोष्ठ्यां भारत-जर्मनी-रणनीतिकसहकारिता पञ्चविंशतिवर्षपूर्त्यवसरे अभिवृद्धेः समीक्षां करिष्यन्ति। सहैव व्यापारः, निवेशः, प्रौद्योगिकी, शिक्षा, रक्षा, सुरक्षा च इत्यादिषु महत्त्वपूर्णेषु विषयेषु विचारविनिमयः भविष्यति।

प्रधानमन्त्रिणः एषा यात्रा गुजरातराज्यस्य देशस्य च कृते अत्यन्तं महत्त्वपूर्णा इति मन्यते।

---------------

हिन्दुस्थान समाचार