Enter your Email Address to subscribe to our newsletters

दिल्ली, 10 जनवरीमासः (हि.स.)।
नरेन्द्र मोदी भारतं सशक्तं समृद्धं च कर्तुं देशस्य युवानां ऊर्जा उत्साहं प्रतिबद्धतां च सर्वाधिकां शक्तिं इति निरूपितवान्। सः अवदत् यत् युवसंततेः अदम्यःसाहसः विकसितभारतस्य संकल्पं नूतनां गतिं प्रददाति।
प्रधानमंत्रिकार्यालयेण प्रदत्तायाः सूचनायाः अनुसारं प्रधानमन्त्री नरेन्द्र मोदी द्वादश जनवरीदिने विकसित भारत यंग लीडर्स डायलॉग कार्यक्रमे देशस्य सर्वेभ्यः भागेभ्यः आगतान् युवनेतॄन् राजधानी दिल्लीमध्ये सम्बोधयिष्यति। अयं संवादमञ्चः युवभ्यः स्वविचारान् आकाङ्क्षाः सुझावांश्च प्रकाशयितुं अवसरं दास्यति येन विकसितभारतस्य दृष्टिकोणः अधिकं सुदृढः भविष्यति।
केन्द्रीयमन्त्री मनसुख मंडावियाेन सामाजिकमाध्यमे एक्स इति मंचे प्रकाशितायाः लेखनस्य प्रति प्रतिक्रियां दत्वा प्रधानमन्त्री अवदत् यत् देशस्य युवशक्तिः अद्भुतेन उत्साहेन अतुलनीयेन जज्बेन च सशक्तस्य समृद्धस्य च राष्ट्रस्य निर्माणाय दृढसंकल्पा अस्ति। सः विकसित भारत यंग लीडर्स डायलॉग माध्यमेन युवभिः सह संवादं कर्तुं स्वीयाम् उत्सुकतां प्रकटितवान् तथा च द्वादश जनवरीदिने तैः सह मिलनस्य अपेक्षां कृतवान्।
---------------
हिन्दुस्थान समाचार