विकसित भारतं यंग लीडर्स डायलॉग इत्यस्य समापन सत्रे सम्मेलिष्यते प्रधानमंत्री
नव दिल्ली, 10 जनवरीमासः (हि.स.)। राष्ट्रिययुवादिवसस्य अवसरें नरेन्द्र मोदी महोदयः द्वादश जनवरीदिने सायंकाले अत्र भारत मंडपम इति स्थले आयोजितस्य विकसित भारत यंग लीडर्स डायलॉग कार्यक्रमस्य समापनसत्रे सहभागं करिष्यति। प्रधानमंत्री कार्यालयेण प्रदत्
प्रधानमंत्री नरेन्द्र मोदी (फाइल फोटो)


नव दिल्ली, 10 जनवरीमासः (हि.स.)।

राष्ट्रिययुवादिवसस्य अवसरें नरेन्द्र मोदी महोदयः द्वादश जनवरीदिने सायंकाले अत्र भारत मंडपम इति स्थले आयोजितस्य विकसित भारत यंग लीडर्स डायलॉग कार्यक्रमस्य समापनसत्रे सहभागं करिष्यति।

प्रधानमंत्री कार्यालयेण प्रदत्तायाः सूचनायाः अनुसारं प्रधानमन्त्री अस्मिन् अवसरें देशस्य सर्वेभ्यः भागेभ्यः आगतानां प्रायः त्रिसहस्रस्य युवभिः सह संवादं करिष्यति। अस्मिन् कार्यक्रमे अन्ताराष्ट्रीयप्रवासीसमुदायस्य प्रतिनिधित्वं कुर्वन्तः युवा प्रतिनिधयः अपि सहभागी भविष्यन्ति।

चयनिताः प्रतिभागिनः राष्ट्रियमहत्त्वस्य प्रमुखक्षेत्रैः सम्बद्धेषु दश विषयगत-मार्गेषु स्वस्वान् अन्तिम-प्रस्तावान् प्रधानमन्त्रीसमक्षं प्रस्तोष्यन्ति तथा च युवनेतृत्वाधारितान् सुझावान् विचारांश्च साझा करिष्यन्ति।

प्रधानमन्त्री अस्य कार्यक्रमस्य अवसरें विकसित भारत यंग लीडर्स डायलॉग इत्यस्य निबन्धसंकलनपुस्तिकायाः विमोचनं अपि करिष्यति। अस्मिन् संकलने भारतस्य विकासप्राथमिकतासु दीर्घकालिकेषु राष्ट्रनिर्माणलक्ष्येषु च युवाभिः लिखिताः चयनिताः निबन्धाः समाविष्टाः सन्ति।

उल्लेखनीयं यत् विकसित भारत यंग लीडर्स डायलॉग इत्यस्य अयं द्वितीयः संस्करणः अस्ति यः देशस्य युवानां राष्ट्रियनेतृत्वस्य च मध्ये संरचितसंवादस्य एकं महत्त्वपूर्णं मंचं भवति। एषा पहल प्रधानमन्त्रीना स्वातन्त्र्यदिवसे कृतस्य आह्वानस्य अनुरूपा अस्ति यत्र राजनीतितः परं स्थितानां लक्षयुवानां राजनीतिसम्बन्धेन संयोजनं कर्तुं तथा च विकसितभारताय स्वविचारान् प्रस्तोतुं राष्ट्रियमञ्चप्रदानस्य विषयः उक्तः आसीत्।

नवमे जनवरीदिनात् द्वादश जनवरीदिनपर्यन्तं आयोजिते अस्मिन् संवादे देशस्य सर्वेभ्यः भागेभ्यः पञ्चाशत् लक्षाधिकानां युवानां सहभागिता अभिलेखिता अस्ति। राष्ट्रियस्तरीय-चैम्पियनशिप्-चक्रे प्राप्तानां युवनेतॄणां चयनः त्रिचरणीयया कठोरया मेरिटाधारितया प्रक्रियया कृतः यत्र देशव्यापी डिजिटल्-क्विज् निबन्धप्रतियोगिता राज्यस्तरीय-विजन-प्रस्तुतयश्च अन्तर्भूताः आसन्।

डायलॉग इत्यस्य द्वितीयसंस्करणे अनेके नूतनाः आयामाः संयोजिताः सन्ति। तेषु डिजाइन फॉर भारत टेक फॉर विकसित भारत सामाजिककार्याय हैक इति उपक्रमः विषयगतसंवादस्य विस्तारः प्रथमवारं अन्ताराष्ट्रियसहभागिता च अन्तर्भवन्ति येन अस्य मंचस्य विस्तारः प्रभावश्च अधिकः सुदृढः अभवत्।

---------------

हिन्दुस्थान समाचार