Enter your Email Address to subscribe to our newsletters

नवदिल्ली। राष्ट्रिय–स्वयंसेवक–संघस्य (आर.एस.एस.) कृते इदं वर्षम् अत्यन्तं विशेषं तथा ऐतिहासिकं वर्तते। देशस्य सामाजिक–राजनैतिक–सांस्कृतिक–संरचनायां महत्त्वपूर्णां भूमिकां निर्वहन् संघः अस्मिन् वर्षे स्वस्य शतवर्ष–पूर्तिं प्राप्नोति। एतस्य अवसरस्य स्मरणार्थं निर्मितं हिन्दी–चलचित्रं ‘शतक (संघस्य १०० वर्षाणि)’ शीघ्रमेव दर्शकानां समक्षम् आगमिष्यति।शताब्दी–यात्रां समाप्य राष्ट्रिय–स्वयंसेवक–संघः भारतस्य अत्यन्तं चर्चितेषु संगठनेषु एकः अस्ति। तथापि संघस्य विषये निर्मिताः सार्वजनिक–धारणाः अनेकवारं गहन–बोधस्य अपेक्षया अपूर्ण–सूचनाभिः तथा पूर्वाग्रहैः आधारिताः आसन्। संघस्य मूल–दर्शनम्, मूल्य–व्यवस्था तथा आन्तरिक–कार्यप्रणाली इत्येतत् सम्यक् अवगन्तुं अपेक्षितः प्रयासः तुलनया न्यूनः अभवत्।एतस्यां पृष्ठभूमौ ‘शतक’ चलचित्रं कोलाहल–पूर्वधारणाभ्यां परं गत्वा राष्ट्रिय–स्वयंसेवक–संघस्य वास्तविकां, सत्यतान तथा ऐतिहासिकीं यात्रां प्रस्तोतुम् प्रयतते। वीर–कपूर–निर्मितम्, आशीष–तिवारी–सह–निर्मितं च इदं चलचित्रं ADA 360 Degree LLP इत्यस्य सहयोगेन सिद्धीकृतम् अस्ति। अस्मिन् चित्रे संघस्य संस्थापकस्य डॉ.केशव–बलिराम–हेडगेवारस्य योगदानं तथा एम.एस.–गोलवलकर–(गुरुजी)–महाभागस्य नेतृत्वे सम्पन्नं संघटनात्मकं विस्तार–विकासं च विशेषतया प्रकाश्यते। मूल्य–निष्ठा, अनुशासनं तथा दीर्घकालिक–दृष्टिः इत्यादिभिः आधारिता संघस्य संरचना चलचित्र–माध्यमेन दर्शिता अस्ति।चलचित्रस्य निर्माता वीर–कपूरः अवदत्—“अहं सदैव अस्य राष्ट्रस्य सेवां कृतवान्, तेनैव भावेन राष्ट्रिय–स्वयंसेवक–संघस्य सेवायामपि प्रयत्नं कृतवान्। ‘शतक’ शतवर्षपूर्वम् आरब्धायाः तस्याः यात्रायाः विनम्रा प्रस्तुति: अस्ति, या शान्त्या किन्तु निरन्तर–परिश्रमेण अग्रे गता। अद्य यदा विश्वं भारतं प्रेरणायै पश्यति, तदा संघस्य भूमिकां पूर्वाग्रहात् परे गत्वा सत्यतापूर्वकं प्रस्तोतुम् अत्यावश्यकम्।”आशीष–मल–निर्देशितं ‘शतक’ चलचित्रं अस्मिन् एव वर्षे सम्पूर्णे देशे चलचित्रगृहेषु प्रदर्शितं भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता