अद्य पृथिवी, बृहस्पतिः, सूर्यश्च एकस्यां पंक्तौ आगमिष्यन्ति
- गुरुदर्शनाय उत्तमः अवसरः — सौरमण्डलस्य महान् ग्रहः अधिकं दीप्तिमान् च दृश्यते भोपालम्, १० जनवरीमासः (हि.स.)।खगोल–विज्ञाने रुचिं वहतां जनानां कृते अद्य शनिवासरः अत्यन्तं विशेषः भवति। कारणम् अद्य (१० जनवरी–दिने) एका महत्त्वपूर्णा खगोलीया घटना भविष
पृथ्वी, बृहस्पति और सूर्य (प्रतीकात्मक)


खगोलीय घटना की जानकारी देते हुए सारिका


खगोलीय घटना की जानकारी देते हुए सारिका


- गुरुदर्शनाय उत्तमः अवसरः — सौरमण्डलस्य महान् ग्रहः अधिकं दीप्तिमान् च दृश्यते

भोपालम्, १० जनवरीमासः (हि.स.)।खगोल–विज्ञाने रुचिं वहतां जनानां कृते अद्य शनिवासरः अत्यन्तं विशेषः भवति। कारणम् अद्य (१० जनवरी–दिने) एका महत्त्वपूर्णा खगोलीया घटना भविष्यति, यस्यां परिक्रमणं कुर्वन् सौरमण्डलस्य महान् ग्रहः बृहस्पतिः (जुपिटर), अस्माकं ग्रहः पृथिवी तथा सूर्यः — एते त्रयः एकस्मिन् सरल–रेखामार्गे (सीधे) स्थिताः भविष्यन्ति। अस्याः स्थितेः कारणेन बृहस्पतिः पृथिव्याः समीपम् आगच्छन् अत्यधिकया दीप्त्या सह अपेक्षया महत्तरः दृश्यते।राष्ट्रीय–पुरस्कार–प्राप्ता विज्ञान–प्रसारिका सारिका–घारू–महाशया अस्मिन् विषये अवदत् यत् अपराह्णे द्विवादन–चतुर्निमेष–काले बृहस्पति:, पृथिवी तथा सूर्यः एकस्मिन् सरलमार्गे स्थिताः भविष्यन्ति। तस्मिन् काले बृहस्पते: पृथिवीतः दूरी प्रायः ६३ कोटि ३० लक्षं ७६ सहस्र किलोमीटरं यावत् भविष्यति। सामीप्यत्वात् गुरुदर्शनाय अयम् उत्तमः अवसरः भविष्यति। अतः बृहस्पति: अत्यधिकं दीप्तिमान् तथा अपेक्षया महत्तरः दृश्यते।सारिका–महाशया अवदत् यत् सायंकाले पूर्वदिशि बृहस्पतिं दूरबीक्षणं विना अपि दीप्तिमन्तं द्रष्टुं शक्यते। परन्तु यदि दूरबीक्षणेन (टेलिस्कोप) पश्येत्, तर्हि तस्य चक्रस्य पट्टिकाः तथा च तस्य चत्वारः गैलिलियन–चन्द्रमाः अपि दृश्यन्ते। अस्यां घटनायां बृहस्पति माइनस् २.६८ मैग्निट्यूड–प्रमाणेन दीप्तिमान् भविष्यति।तया उक्तं यत् बृहस्पतिः (यः “गुरु” इति अपि कथ्यते) अधुना आकाशे मिथुन–तारामण्डले स्थितः अस्ति। सायंकाले उदित्वा सः रात्रौ आकाशे तिष्ठन् मध्यरात्रौ शिरसः उपरि भविष्यति, तथा प्रातः पश्चिमदिशि अस्तं गमिष्यति। खगोल–प्रेमिभ्यः एषः सुवर्ण–अवसरः अस्ति, यदा पृथिवी तथा बृहस्पतिः परस्परं समक्षं स्थास्यत:। अतः गुरुदर्शनस्य अयं अवसरः न लङ्घनीयः।सारिका–महाशया अवदत् यत् बृहस्पतिः अस्माकं पृथिव्याः अपेक्षया प्रायः एकादश–गुणं विशालः अस्ति। यदि पृथिवीं द्राक्षाफल–आकारेण मन्येम, तर्हि बृहस्पति बास्केट–बॉल–आकारवत् भविष्यति। बृहस्पते: सूर्येण सह दूरी एतावती अस्ति यत् सूर्यप्रकाशः तत्र गन्तुं प्रायः ४३ निमेषं समयं गृह्णाति। अद्यावधि बृहस्पते: ९५ चन्द्रमाः अन्वेषिताः सन्ति।

हिन्दुस्थान समाचार / Dheeraj Maithani