Enter your Email Address to subscribe to our newsletters



मथुरा, 10 जनवरीमासः (हि.स.)। राष्ट्रीयस्वयंसेवकसंघस्य सरसंघचालकः मोहनभागवतः शुक्रवासरे वृन्दावनस्थिते चन्द्रोदयमन्दिरे दर्शनं कृतवान्। अस्मिन् अवसरॆ सः विधिवत् पूजामर्चनं कृत्वा समाजस्य कल्याणार्थं मङ्गलकामनां अकरोत्। मन्दिरपरिसरे सः विद्यालयीयबालकेभ्यः स्वहस्तेन मध्याह्नभोजनप्रसादमपि वितरितवान्।
चन्द्रोदयमन्दिरे उपस्थितान् भक्तान् सम्बोधयन् संघप्रमुखः मोहनभागवतः अवदत् यत् अन्तरराष्ट्रीयकृष्णभावनामृतसंघस्य संस्थापकाचार्यः अभयचरणारविन्दः भक्तिवेदान्तः श्रीलप्रभुपादः सम्पूर्णजीवनेन मानवतायाः महान् प्रेरणास्रोतः अस्ति। सः अवदत् यत् श्रीलप्रभुपादेन भारतीयसंस्कृतिः, सनातनमूल्यानि तथा भगवद्गीतायाः सार्वभौमिकः सन्देशः विश्वभरं प्रचारितः, येन मानवसमाजः नवदिशां प्राप्तवान्।
अस्मिन् अवसरॆ मोहनभागवतः अक्षयपात्र-फाउण्डेशनद्वारा पोषितविद्यालयस्य छात्रेभ्यः प्रतीकात्मकरूपेण मध्याह्नभोजनप्रसादं वितरितवान्। बालकैः सह संवादं कुर्वन् सः शिक्षायाः, संस्काराणां, सेवायाश्च महत्त्वं प्रतिपादयित्वा तेषां उज्ज्वलभविष्यस्य कामनां कृतवान्।
मोहनभागवतः अवदत् यत् संघस्य च चन्द्रोदयमन्दिरसम्बद्धानां भक्तानां च उद्देश्यः केवलं धार्मिकक्रियासु सीमितः नास्ति, अपि तु व्यक्तित्वनिर्माणेन, संस्कारयुक्तशिक्षया, सेवया तथा सामाजिकसमरसतया भारतं पुनः विश्वस्य आध्यात्मिककेन्द्ररूपेण प्रतिष्ठापयितुम् एव अस्ति।
चन्द्रोदयमन्दिरस्य जनसम्पर्कप्रमुखः भरतर्षभादासः अवदत् यत् दर्शनानन्तरं मोहनभागवता श्रीलप्रभुपादस्य विग्रहे पुष्पार्चनं कृत्वा श्रद्धाञ्जलिः अर्पिता। अस्मिन् अवसरॆ चन्द्रोदयमन्दिरस्य अध्यक्षः चञ्चलापतिदासः तथा चेयरमैनः मधुपण्डितदासः मोहनभागवताय श्रीलप्रभुपादेन विरचितायाः “भगवद्गीता यथारूप” इत्यस्य विभिन्नभाषासु प्रकाशितानां संस्करणानां अवलोकनं कारितवन्तौ।
एतदतिरिक्तं संघप्रमुखः निर्माणाधीनस्य वृन्दावनचन्द्रोदयमन्दिरस्य प्रतिरूपस्य (मॉडेलस्य) अपि अवलोकनं कृतवान्। अध्यक्षः चञ्चलापतिदासः मन्दिरस्य भव्यां वास्तुकलां, अद्वितीयां संरचनां तथा अस्य आध्यात्मिकं उद्देश्यं विषये विस्तृतां जानकारीं दत्तवान्। सः अवदत् यत् चन्द्रोदयमन्दिरस्य उद्देश्यः भारतस्य सांस्कृतिकां आध्यात्मिकां च विरासतां वैश्विकमञ्चे सशक्ततया प्रस्तोतुं तथा युवान् नैतिकता-सेवा-भक्तिमार्गे प्रेरयितुं भवति।
----------------
हिन्दुस्थान समाचार