राम मंदिर परिसरे नमाज पठितुं यत्नः, निग्रहे स्थापितःजनः
अयोध्या, 10 जनवरीमासः (हि.स.)। उत्तरप्रदेशराज्यस्य अयोध्याजनपदे रामजन्मभूमि-मन्दिरपरिसरात् एकः पुरुषः सुरक्षाकर्मिभिः हिरासत् गृहीतः। सः पुरुषः तत्र नमाजपठनस्य प्रयासं कुर्वन् आसीत्। घटनास्थले उपस्थितैः सुरक्षाकर्मिभिः सः तत्क्षणमेव गृहीतः। प्रारम
राम मंदिर की फोटो


अयोध्या, 10 जनवरीमासः (हि.स.)। उत्तरप्रदेशराज्यस्य अयोध्याजनपदे रामजन्मभूमि-मन्दिरपरिसरात् एकः पुरुषः सुरक्षाकर्मिभिः हिरासत् गृहीतः। सः पुरुषः तत्र नमाजपठनस्य प्रयासं कुर्वन् आसीत्। घटनास्थले उपस्थितैः सुरक्षाकर्मिभिः सः तत्क्षणमेव गृहीतः।

प्रारम्भिकसूचनानुसारं गृहीतस्य पुरुषस्य परिचयः कश्मीरनिवासी अहमदशेख इति अभवत्। यदा सुरक्षाकर्मिभिः सः निरुद्धः, तदा सः कथितरूपेण विशेषसंप्रदायस्य नारान् उच्चारयितुं आरब्धवान्। ततः घटनास्थले उपस्थितैः सुरक्षाबलैः सः शीघ्रमेव हिरासत् नीतः।

अद्यावधि अस्मिन् विषये जिलाप्रशासनतर्फेण कोऽपि आधिकारिकः वक्तव्यः न प्रकाशितः। तथैव राममन्दिर-ट्रस्टेनापि सम्पूर्णे प्रकरणे अधुना किमपि वक्तव्यं न दत्तम्। सम्प्रति सः पुरुषः हिरासत् स्थित्वा तस्मात् विस्तृतपूछताछा क्रियते।

---------------

हिन्दुस्थान समाचार