Enter your Email Address to subscribe to our newsletters

मीरजापुरम्, 10 जनवरीमासः (हि.स.)। उत्तरप्रदेशस्य मीरजापुरजिल्लायां निराश्रितगोवंशस्य संरक्षणविषये प्रशासनं महत्त्वपूर्णं प्रयत्नं कृतवत् अस्ति। अधुना जिलास्थितानां गोवंशाश्रयस्थलानां निगराणी जिला मुख्यालयात् एव क्रियते। अस्य उद्देश्येन चयनितेषु द्वादश गोआश्रयस्थलेषु सीसीटीवी क्यामराः संस्थापिताः सन्ति। एतेषां क्यामराणां माध्यमेन तत्रत्याः क्रियाकलापाः चतुर्विंशतिघण्टापर्यन्तं निरीक्षितुं शक्यन्ते।
पशुपालनविभागेन विकासभवनपरिसरे नियन्त्रणकक्षस्य स्थापना प्रक्रिया आरब्धा अस्ति। नियन्त्रणकक्षस्य माध्यमेन आश्रयस्थलेषु गोवंशस्य पालनपोषणं, चारा जलव्यवस्था तथा स्वच्छतायाः नियमितनिगराणी क्रियते। एतेन परिचारकानां कार्यप्रणाली अपि निरीक्षिता भविष्यति, तथा कस्यापि प्रकारस्य प्रमादे तत्क्षणमेव कार्यवाही कर्तुं शक्यते।
दीर्घकालात् सीसीटीवी क्यामरास्थापनयोजना धनाभावेन विलम्बिता आसीत्। अलीकाले शासनपक्षेण प्रत्येकक्यामरायै पञ्चाशत्सहस्ररूप्यकाणां धनराशिः स्वीकृता, तदनन्तरं एतत् कार्यं शीघ्रतया सम्पन्नं कृतम्।
मुख्यपशुचिकित्साधिकारी भूपेन्द्र पाठकः अवदत् यत् नियन्त्रणकक्षः सक्रियः भवति चेत् सर्वे क्यामराः तत्क्षणमेव संयोजिताः भविष्यन्ति। एतेन न केवलं गोवंशस्य सुरक्षा सुनिश्चिता भविष्यति, अपि तु रोगग्रस्तपशूनां पहिचानं कृत्वा समये एव चिकित्सा अपि कारयितुं शक्यते। नियन्त्रणकक्षात् सम्बन्धितक्षेत्रस्य पशुचिकित्सकान् शीघ्रं सूचयित्वा घटनास्थले प्रेषयितुं व्यवस्था भविष्यति।
अनेन उपक्रमेण गोवंशसंरक्षणव्यवस्था अधिकं सुदृढा भविष्यतीति अपेक्षा वर्तते।
---------------
हिन्दुस्थान समाचार