Enter your Email Address to subscribe to our newsletters

वाराणसीनगरम्, १० जनवरीमासः (हि.स.)। कांग्रेस–दलस्य प्रदेश–अध्यक्षः अजय–रायः शनिवासरे वाराणसी–नगरे पत्रकारैः सह संवादे अवदत् यत् जनपदे कांग्रेस–दलेन एकं विशालं पथसंचलन–कार्यक्रमम् आयोजयितुं निश्चयः कृतः अस्ति। तदर्थम् उपयुक्तस्य स्थलस्य अन्वेषणं क्रियते। सम्भाव्यते यत् अग्रिम ८ फरवरी–दिने वाराणसी–नगरे कांग्रेस–दलस्य प्रमुख–नेतॄणाम् उपस्थितौ महान् पथसंचलन–कार्यक्रमः भविष्यति।
अजयरायः अग्रे अवदत् यत् उत्तर–प्रदेशे विधानसभायाः निर्वाचन–अभियानस्य आरम्भः अपि अस्य संचलनस्य माध्यमेन एव भविष्यति। संचलने दालमण्डी–विषयेण सहितं बहवः अन्ये विषयाः अपि चर्चायां स्थापयिष्यन्ते।
दिल्ली–नगरे स्थितं नेतृत्वम् अपि संचलने सहभागितायै निवेदितम् अस्ति। निश्चयेन कांग्रेस–दलस्य कश्चन प्रमुखः नेता अस्मिन् संचलने सहभागं करिष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता